SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ एवमेआणि जाणिज्जा (ता), सवभावेण संजए । अप्पमत्तो जए निच्चं, सविंदिअसमाहिए ॥ ३५० ॥ उक्तः स्थूलविधिः, अथ सूक्ष्मविधिमाह-अट्ठत्ति, अष्टौ सूक्ष्माणि वक्ष्यमाणानि प्रेक्ष्योपयोगतः आसीत तिष्ठेत् शयीत वेति योगः, किंविशिष्टानीत्याह- यानि ज्ञात्वा संयतो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च दयाधिकारी भूतेषु भवति, अन्यथा दयाधिकार्येव नेति, तानि प्रेक्ष्य तद्रहित एवासनादीनि कुर्यात्, अन्यथा तेषां विराधनेन सातिचारतेति ।। ३४७ ।। आह-कयराणित्ति, कतराणि तान्यष्टौ सूक्ष्माणि यानि दयाधिकारित्वाभावभयात् पृच्छेत्संयतः १ १४१रण एवैवंविधेषु यत्नमाह, सह्यवश्यं तदुपकारकाण्यपकारकाणि च पृच्छति, तत्रैव मात्रप्रतिबन्धादिति, अमूनि तान्यनन्तरं वक्ष्यमाणानि मेघावी आचक्षीत विचक्षण इति, अनेनाप्येतदेवाह - मर्यादावर्त्तिना तज्ज्ञेन तत्प्ररूपण कार्या, एवं हि श्रोतुस्तत्रोपादेयबुद्धिर्भवति, अन्यथा विपर्यय इति ॥ ३४८ ॥ सिणेहंति, स्नेहमिति स्नेहसूक्ष्मंअवश्यायहिममहिकाकर कहरतनुरूपं, पुष्पसूक्ष्मं चेति वटोदुम्बराणां पुष्पाणि तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते, प्राणीति, प्राणिसूक्ष्ममनुद्धरिः कुन्थुः, स हि चलन् विभाव्यते, न स्थितः, सूक्ष्मत्वात्, उत्तिगं तथैव चेति, उतिंगसूक्ष्मंकीटिकानगरं, तत्र कीटिका अन्ये च सूक्ष्मसच्चा भवन्ति, तथा पनकमिति, पनकसूक्ष्मं प्रायः प्रावृट्काले भूमिकाष्ठादिषु पञ्चवर्णस्तद्रव्यलीनः पनक इति, तथा बीजसूक्ष्मं - शाल्यादिवीजस्य मुखमूले कणिका, या लोके तुषमुखमित्युच्यते, हरितं चेति हरितसूक्ष्मं तच्चाऽत्यन्ताभिनवोद्धिनं पृथिवीसमानवर्णमेवेति, अण्डसूक्ष्मं चाष्टममिति एतच्च मक्षिकाकीटिकागृहको किलाब्राह्मणी कुकलासाद्यण्डकमिति ॥ ३४९ ॥ एवमेआणित्ति, एवमुक्तेन प्रकारेण एतानि सूक्ष्माणि ज्ञात्वा सुमति ० साधु० श्रीदश ० अ०८ Jain Education International For Private & Personal Use Only सूक्ष्म यतना गा. ३५० ॥ १४१ ॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy