________________
सुमति
साधु० श्रीदशवै ०
अ०८
॥ १३७ ॥
Jain Education Interne
व्याख्यातं वाक्यशुद्ध्यध्ययनं इदानीमाचारप्रणिध्याख्यमारभ्यते, अस्य चायमभिसम्बन्धः । इहानन्तराध्ययने साधुना वचन दोषगुणाभिज्ञेन निश्वद्यवचसा वक्तव्यमित्येतदभिहित, इह तु तन्निरवद्यं वच आचारे प्रणिहितस्य भवतीति तत्र यत्नवता भवितव्यमित्येतदुच्यते उक्तं च-" पणिहाणरहियस्सेह निरवपि भासियं । सावजतुल्लं विनेयं, अज्झत्थेणेह संबुडं ॥ १ ॥ " इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनमिति, तद्यथा—
आयारणिहिं लधुं, जहा काय व भिक्खुणा । तं भे उदाहरिस्सामि, आणुपुत्रिं सुह मे ॥ ३३५ ॥
आचारमित्यादि, आचारप्रणिधिमुक्तस्वरूपां लब्ध्वा - प्राप्य यथा येन प्रकारेण कर्त्तव्यं विहितानुष्ठानं भिक्षुणा - साधुना, तंप्रकारं भे-भवद्द्भ्य उदाहरिष्यामि - कथयिष्याम्यानुपूर्व्या परिपाठ्या शृणुत ममेति गौतमादयः स्वशिष्यानाहुरिति ।। ३३५ ।। तं प्रकारमाह
पुढचीदगअगणिमारुअ, तणरुक्खस्सबीयगा । तसा अ पाणा जीवत्ति इइ वृत्तं महेसिणा ॥ ३३६ ॥ तेसिं अच्छणजोएण, निच्चं होअवयं सिआ । मणसा कायवक्केणं, एवं हवइ संजए ॥ ३३७ ॥ पुढविं भित्तिंसिलं लेलं, नेव भिंदे न संलिहे । तिविहेण करणजोएणं, संजए सुसमाहिए ||३३८ || सुद्धपुढवीं न निसीए, ससरक्खंमि अ आसणे । पमजित्तु निसीइज्जा, जाइत्ता जस्स उग्गहं ॥ ३३९ ॥
For Private & Personal Use Only
संयत
स्वरूपम्
गा. ३३५
३३९
॥ १३७ ॥
www.jainelibrary.org