________________
सुमति
साधु श्रीदशवै० अ०७
वाक्यशुद्धिफलम्
॥ १३६॥
स्वरतः परिमाणतश्च, अदुष्ट-देशकालोपपन्नादि अनुविचिन्त्य-पर्यालोच्य भाषमाणः सन् सतां-साधूनां मध्ये लभते प्रशंसन-प्राप्नोति प्रशंसामिति ॥ ३३२॥ यतश्चैवमतः-भासाएति, भाषाया उक्तलक्षणाया दोषांश्च गुणांश्च ज्ञात्वायथावदवेत्य तस्याश्च दुष्टाया भाषायाः परिवर्जको-विवर्जकः सदा, एवम्भृतः सन् षड्जीवनिकायेषु संयतस्तथा | श्रामण्ये-श्रमणभावे चरणपरिणामगर्ने चेष्टिते सदा यतः-सर्वकालमुटुक्तः सन् वदेत् बुद्धो हितानुलोम-हितं परिणाम| सुन्दरं अनुलोम-मनोहारीति ॥ ३३३ ।। उपसंहरबाह-परिक्खत्ति, परीक्ष्यभाषी-आलोचितवक्ता तथा सुसमाहि
तेन्द्रियः-सुप्रणिहितेन्द्रिय इत्यर्थः, अपगतचतुष्कषाय:-क्रोधादिनिरोधकर्तेति भावः,अनिश्रितो-द्रव्यभावनिश्रारहितः, | प्रतिबन्धविमुक्त इति हृदयं, स इत्थंभूतो निर्धूय-प्रस्फोव्य धून्नमलं-पापमलं, पुराकृतं-जन्मान्तरकृतं, किमित्याह
आराधयति-प्रगुणीकरोति लोकमेनं-मनुष्यलोकं वाक्संयतत्वेन, तथा परमिति-परलोकमाराधयति निर्वाणलोकं, यथा. सम्भवमन्तरं पारम्पर्येण चेत्यर्थः ॥ ३३४ ॥ ब्रवीमीति पूर्ववदेवेति ॥
इति श्रीसुमतिसाधुविरचितायां दशवकालिकटीकायां सप्तमस्य वाक्यशुद्ध्यध्ययनस्य व्याख्यानं समाप्तम् ७॥
in Educh an intem
For Private & Personal Use Only
| www.jainelibrary.org