________________
सुमति० साधु० श्रीदशचै०
अ० ७
॥ १३४ ॥
Jain Education Internation
अंतलिक्खत्ति णं बूआ, गुज्झाणुचरिअत्ति अ । रिद्धिमंतं नरं दिस्स, रिद्धिमंतांत आलवे ॥ ३३० ॥ तव सावज्जणुमोअणी गिरा, ओहारिणी जा य परोवघाइणी ।
से कोह लोह भय हास माणवो, न हासमाणोऽवि गिरं वइज्जा ॥ ३३१ ॥
किंच- देवाणंति, देवानां देवासुराणां मनुजानां च नरेन्द्रादीनां तिरश्चां च महिषादीनां विग्रहे-सङ्ग्रामे सत्यमुकानां देवादीनां जयो भवतु मा वा भवतु इति च नो वदेत्, अधिकरणतत्स्वाम्यादिद्वेषदोषप्रसंगादिति || ३२७ ॥ किं च-वाओत्ति, वातो- मलयमारुतादिः, वृष्टं वा प्रवर्षणं, शीतोष्णं प्रतीतं, क्षेमं - राजविदुरशून्यं भ्रातंसुभिक्षं, शिवमिति चोपसर्गरहितं कदा नु भवेयुरेतानि वातादीनि मा भवेयुरिति, धर्माद्यभिभूतो नो वदेद्, अधिकरणादिदोषप्रसङ्गात्, वातादिषु सत्सु सभ्वपीडापत्तेस्तद्वचनतस्तथाऽभवनेऽध्यार्त्तध्यानभावादिति ।। ३२८ ॥ तवत्ति, तथैव मेघं
नभ मानवं वाश्रित्य नो देवदेवत्ति गिरं वदेत्, मेघमुन्नतं दृष्ट्वा 'उन्नतो देव' इति नो वदेत्, एवं नभः - आकाश मानवं राजानं देवमिति नो वदेत् मिथ्यावादलाघवादिप्रसङ्गात् कथं तर्हि वदेत् ? इत्याह मेघमुन्नतं दृष्ट्वा सम्मूर्च्छित उन्नत वा पयोद इति, वदेद्वा वृष्टो बलाहक इति ॥ ३२९ ॥ नभ आश्रित्याह- अंतलिक्खत्ति, इह नमोऽन्तरिक्षमिति ब्रूयात्, गुह्यानुचरितमिति वा सुरसेवितमित्यर्थः एवं किल मेघोऽप्येतदुभयशब्दवाच्य एव तथा ऋद्धिमन्तं - संपदुपेतं नरं दृष्ट्वा, किमित्याह ऋद्धिमन्तमिति ऋद्धिमानयमित्येव मालपेत् व्यवहारतो मृषावादादिपरिहारार्थम् ॥ ३३० ॥ किंच
For Private & Personal Use Only
वाग्विधि
निषेधौ
गा. ३३०
३३१
॥ १३४ ॥
www.jainelibrary.org