________________
सुमतिसाधु भीदशवै० अ०७
॥१३२॥
सुन्दरमित्यर्थः, परार्घ चोत्तमा वा महा क्रीतमिति भावः, अतुलं-नास्तीदृशमन्यत्रापि क्वचित , अविक्कियंति-असं-12 | वाग्विधिस्कृतं सुलभमीदृशमन्यत्रापि, अवक्तव्यमित्यनन्तगुणमेतदेव अचियत्तं वा-अप्रीतिकरं चैतदिति नो वदेद् , अधिकरणा- निषेधौ तरायादिदोषप्रसङ्गादिति ॥ ३२० ॥ किंच-सव्वमेयमिति, सर्वमेतद्वक्ष्यामीति केनचित्कस्यचित्संदिष्टे सर्वमेतत् त्वया गा.३२४ वक्तव्यमिति, सर्वमेतद्वक्ष्यामीति नो वदेव , सर्वस्य तथास्वरव्यञ्जनायुपेतस्य वक्त्तुमशक्यत्वात् , तथा सर्वमेतदिति नो वदेत् , कस्यचित्संदेशं प्रयच्छन् , सर्वमेतदित्येवं वक्तव्यमिति नो वदेत् , सर्वस्य तथास्वरव्यञ्जनायुपेतस्य वस्तुमशक्यत्वात् , असंभवाभिधाने मृषावादः, यतश्चैवमतोऽनुचिन्त्यालोच्य सर्व वाच्यं सर्वेषु कार्येषु यथाऽसंभवाद्यभिधानादिना मृषावादो न भवत्येवं भाषेत प्रज्ञावान् साधुरिति ॥ ३२१ ॥ किंच-सुक्कीयं वत्ति, सुक्रीतं चेति केनचित् किश्चित् क्रीतं दर्शितं सत् सुक्रीतमिति नव्यागृणीयादिति योगः, तथा सुविक्रीतमिति किश्चित्केनचिद्विक्रीतं दृष्ट्वा पृष्टः सन् सुविक्रीतमिति न व्यागृणीयात् , तथा केनचित्क्रीते पृष्टः, अकेयं-क्रयाईमेव न भवतीति न व्यागृणीयात् , तथैवमेव क्रेयमेव वा-क्रयाहमिति, तथेदं-गुडादि गृह्णीयादा( गृहाणा)गामिनि काले महाचं भविष्यतीति, तथेदं मुश्च घृताद्यागामिनि काले समय भविष्यतीति कृत्वा पणितं-पण्यं नैव व्यागृणीयात् , अप्रीत्यधिकरणादिदोषप्रसङ्गादिति ।। ३२२ ॥ अत्रैव विधिमाह-अप्परचे वत्ति, अल्पार्धे वा महाघे वा, कस्मिनित्याह-क्रये वा विक्रयेऽपि वा पणितार्थे-पण्यवस्तुनि समुत्पन्ने केनचित्पृष्टः समनवयं-अपापं व्यागृणीयात् यथा नाधिकारोऽत्र तपस्विनां, व्यापारामावादिति ।। ३२३ ॥ तहेवासंजयं धीरो, आस एहि करेहि वा । सय चिट्र वयाहित्ति, नेवं भासिज पन्नवं ।। ३२४ ॥ ॥१३॥
Jain Education Interol
For Private & Personel Use Only
www.jainelibrary.org