SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु. श्रीदशवै० अ०७ वाग्विधिनिषेधौ ॥१२७॥ तथा पीढए इति, पीठकायालमेते वृक्षाः, पीठकं प्रतीतं तदर्थ, "सुपां सुपो भवन्ती"ति चतुर्थ्यर्थ प्रथमा, एवं सर्वत्र योजनीयं, तथा चंगवेरा येत्तिचंगवेरा-काष्ठपात्री तथा नङ्गलेत्ति नांगलं-हलं, तथा अलं मयिकाय स्थात् , मयिक-उप्तबीजाच्छादनं, तथा यन्त्रयष्टये वा, यंत्रयष्टिः प्रसिद्धा, नामये वा, नाभिः-शकटरथाङ्गं गण्डिकायै वाऽलं स्युरेते वृक्षा इति, नैवं भाषेत प्रज्ञावानिति वर्त्तते, गण्डिका सुवर्णकाराणामधिकरणी स्थापनी भवतीति ॥३०५॥ तथा आसणंति, आसनं-आसन्दकादि, शयनं-पर्यकादि, यानं-युग्यादि, भवेद्वा किंचिदुपाश्रये-वसतावन्यद्वा द्वारपात्राद्येतेषु वृशेविति, भूतोपघातिनीसच्चपीडाकारिणी भाषां नैव भाषेत प्रज्ञावान् साधुरिति, दोषाश्चात्र तदनस्वामी व्यन्तरादिः कुप्येत् , सलक्षणो वा वृक्ष इत्यभिगृहीयात , अनियमितभाषिणो लाघवं चेत्येवमादयो योज्याः ॥ ३०६ ॥ अत्रैव विधिमाह-तहेवत्ति, वस्तुतः पूर्ववदेव, नवरमेवं भाषेत ।। ३०७ ॥ जाइमंतत्ति, जातिमन्तः-उत्तमजातीया अशोकादयोऽनेकप्रकारा वा एते-उपलम्यमानस्वरूपा वृक्षा दीर्घवृत्ता महालया:-दीर्घा नालिकेरिप्रभृतयो, वृत्ता नन्दिवृक्षादयो, महालया वटादयः, प्रजातशाखा-उत्पन्नडाला, विटपिन:-प्रशाखावन्तो वदेदर्शनीया इति, एते च प्रयोजने उत्पन्ने विश्रमणतदासनमार्गकथनादौ वदेनान्यदेति ॥३०८॥ तहा फलाई पक्काइत्ति, तथा फलानि-आम्रफलादीनि पक्कानि-पाकप्राप्तानि, तथा पाकखा| यानि-चद्धास्थीनि ग प्रक्षेपकोद्रवपलालादिना विपाच्य भक्षणयोग्यानीति नो वदेत्, तथा वेलोचितानि-पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, टालानि-अबद्धास्थीनि कोमलानीति यदुक्तं भवति, तथा द्वैधिकानीति-पेशीसम्पादनेन द्वैधीभावकरणयोग्यानि वेति नो वदेत् , दोषाः पुनरत्रात ऊर्ध्व नाश एवामीषा, न शोभनानि ॥१२७॥ Jain Education IntermalnGI For Private Personal Use Only Jawww.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy