________________
सुमतिसाधु श्रीदशवै०
वाग्विधिनिषेधौ गा. ३०३. ३०५
॥१२५॥
तहेवत्ति, तथैव यथैवोक्तं प्राक, मानुष्यं-आर्यादिकं, पशु-अजादिकं, पक्षिणं वापि-हंसादिकं, सरीसृपं-अज- गरादिकं, स्थूल:-अत्यन्तमांसलोऽयं मनुष्यादिः, तथा प्रमेदुरः-प्रकर्षेण मेदासम्पन्नः तथा वध्यो-व्यापादनीयः पाक्य | इति च नो वदेत्, पाक्यः-पाकप्रायोग्यः, कालप्राप्त इत्यन्ये, नो वदेव-न ब्रूयात् तदप्रीतितद्व्यापचयाशङ्कादिदोष- प्रसङ्गादिति ॥ २९९ ।। कारणे पुनरुत्पन्ने एवं वदेदित्याह-परिवूढत्ति, परिवृद्ध इति एनं-स्थूलं मनुष्यादि ब्रूयात् , तथा ब्रूयादुपचित इति च, संजातः प्रीणितथापि सस्निग्धः महाकाय इति चालपेत् परिवृद्धं, पलोपचितं परिहरेदित्यादाविति ॥ ३०० ॥ किंच-तहेवत्ति, तथैव यथैव गावो दोह्या-दोहार्हा-दोहसमय आसां वर्त्तत्त इत्यर्थः, दम्या-दमनीया गोरथका इति च, गोरथकाः कल्होडकास्तथा वाह्याः सामान्येन ये क्वचित्तानाश्रित्य रथयोग्या इति च नैवं भाषेत प्रज्ञावान् साधुः, अधिकरणलाघवादिदोषादिति ॥३०१॥ प्रयोजने तु कचिदेवं भाषेतेत्याह-जुवं गवेत्ति, युवा गौरिति दम्यो गौर्युवेति ब्रूयात्, धेनु-गां रसदेति च ब्रूयात् , रसदा गौरिति, तथा इस्वं महल्लकं वापि गोरथकं इस्वं वाह्यं महल्लकं वदेत्, संवहनमिति च रथयोग्यं संवहनं वदेत् , क्वचिद्दिगुपलक्षणादौ प्रयोजन इति ॥ ३०२ ।। तहेव गंतुमुज्जाणं, पव्वयाणि वणाणि अ । रुक्खा महल्ल पेहाए, नेवं भासिज पन्नवं ॥ ३०३ ॥ अलं पासायखंभाणं, तोरणाण गिहाण अ। फलिहऽग्गलनावाणं, अलं उदगदोणिणं ॥ ३०४॥ पीढए चंगबेरे(रा) अ, नंगले मइयं सिआ। जंतलट्री व नाभी वा, गंडिआ व अलं सिआ ॥ ३०५॥
॥१२॥
in Educh an intem
For Private & Personal Use Only
Law.jainelibrary.org