________________
सुमतिसाधु श्रीदशवै.
वाग्विधिनिषेधौ
॥१२३॥
अधुना स्त्रियमधिकृत्याह-अज्जिएत्ति, आर्थि(जि)के प्रार्यि(जि)के वापि अम्ब मातृवस इति च पितृष्वसःभागि- नेयीति, दुहितः नप्त इति च, एतानि ख्यामन्त्रणवचनानि वर्तन्ते, तत्र मातुः पितुर्वा माता आर्यिका, तस्या अपि या अन्या माता सा प्रार्यिका, शेषाभिधानानि प्रकटार्थानि एवेति सूत्रार्थः ॥ २९२ ।। किंच-हले हलेत्ति, हले इत्येवं अन्ने इत्येवं तथा भद्दे स्वामिनि गोमिनि, तथा हले गोले वसुले इत्येतान्यपि नानादेशापेक्षया स्यामन्त्रणवचनानि गौरवकृत्सादिगर्भाणि वर्तन्ते, यतश्चैवमतः स्त्रियं नैवं हो(ह)लादिशब्दरालपेदिति, दोषाश्चैवमालपनं कुर्वतः सङ्गगीतत्प्रद्वेषप्रवचनलाघवादय इति ।। २९३ ॥ यदि नैवमालपेत् कथं तर्हि आलपेदित्याह-नामधिज्जेणन्ति, नामधेयेनेतिनाम्नैव नामधेयेनैनां ब्रूयात् , स्त्रियं क्वचित्कारणे, यथा देवदत्ते ! इत्येवमादि, नामास्मरणादौ गौत्रेण वा पुनर्ब्रयात् स्त्रियं, यथा काश्यपगोत्रे ! इत्येवमादि, यथार्ह-यथायोग्यं वयोदेशैश्वर्याद्यपेक्षया अभिगृह्य-गुणदोषानालोच्यालपेल्ल. पेद्बा, ईषत्सकद्वा लपनं आलपनं, लपनमतोऽन्यथा, तत्र वयोवृद्धा मध्यदेशे ईश्वरा धर्मप्रिया, अन्यत्रोच्यते धर्मशीले इत्यादि, अन्यथा च यथा न लोकोपघात इति ।। २९४ ॥ उक्तः स्त्रियमधिकृत्यालपनप्रतिषेधो विधिश्च, साम्प्रतं पुरुषमधि| कृत्याह-अज्जए पजएत्ति, आर्यकः प्रार्यकश्चापि बप्प चुल्लपितेति च, तथा मातुल भागिनेयेति, पुत्र नप्त इति च, इह भावार्थः स्त्रियामिव द्रष्टव्यः, नवरं चुल्लबप्पा-पितृव्योऽभिधीयत इति ।। २९५ ॥ किंच-हे भो हलित्ति, अन्नेत्ति भट्ट स्वामिन् गोमिन् होल गोल वसुलित्ति पुरुष नैवमालपेदित्यत्रापि भावार्थः पूर्ववदेवेति ॥ २९६ ।। यदि नैवमालपेत्कथं तालपेदित्याह-नामधिज्जेणं ति पूर्ववदेव, नवरं पुरुषाभिलापेन योजना कार्येति ।। २९७ ।।
॥१२३॥
Jain Education Internal
For Private
Personal Use Only