________________
सुमति
वाग्विधि
निषेधौ गा. २९३। २९७
हले हलित्ति अन्नित्ति, भट्टे सामिणि गोमिणि। होले गोले वसुलित्ति, इथि नेवमालवे ॥ २९३ ॥ पानामधिजेण णं बुआ, इत्थीगुत्तेण वा पुणो।जहारिहमभिगिज्झ, आलविज लविज वा ॥ २९४ ॥ भीदशवै०
अज्जए पजए वावि, बप्पो चुल्लपिउत्ति अ। माउलो भाइणिज्जत्ति, पुत्ते णतुणिअत्ति अ॥ २९५॥
हे भो हलित्ति अन्नित्ति, भट्टे सामिअ गोमिअ । होल गोल वसुलित्ति, पुरिसं नेवमालवे ॥ २९६ ॥ ॥१२२॥
नामधिजेण णं ब्रूआ, पुरिसगुत्तेण वा पुणो। जहारिहमभिगिज्झ, आलविज लविज वा ॥ २९७॥
तहेवत्ति, तथैव, परुषा भाषा-निष्ठुरा साधुभावस्नेहरहिता गुरुभूतोपघातिनी-महाभूतोपघातवती, यथा [भत्रति | तथा] कश्चित्कस्यचित् कुलपुत्रत्वेन प्रतीतस्तं दासमित्यभिदधतः, सर्वथा सत्यापि सा बाह्यार्थातथाभावमङ्गीकृत्य न वक्तव्या, यतो यस्या भाषायाः सकाशात्पापस्यागमः-अकुशलबन्धो भवति ॥ २८८ ॥ तहेवत्ति, तथैवेति पूर्ववत् , काणं-भिन्नाक्षं काण इति, तथा पण्डकं-नपुंसकं पण्डक इति वा, व्याधिमन्तं वापि रोगीति, स्तेनं-चौरं चौर | इति नो वदेत् , अप्रीतिलजानाशस्थिररोगबुद्धिविराधनादिदोषप्रसङ्गादिति ॥२८९ ।। एएणं ति, एतेनान्येन वाऽर्थेनोक्तेन सता परो येनोपहन्यते, येन केनचित्प्रकारेण । आचारभावदोषज्ञो यतिन तं भाषेत प्रज्ञावान् तमर्थमिति ॥ २९० ॥ तहेव त्ति, तथैव, होले गोले इति श्वा वा वसुल इति, द्रमको दुर्भगश्चापि नैवं भाषेत प्रज्ञावान्, इह होलादिशब्दास्तत्तद्देशप्रसिद्धितो नैष्ठुर्यादिवाचका अतस्तत्प्रतिषेध इति ॥ २९१ ।। एवं स्त्रीपुरुषयोः सामान्येन भाषणप्रतिषेधं कृत्वा |
|१२२॥
Jain Education International
For Private & Personel Use Only
Twww.jainelibrary.org