________________
सुमति
साधु
श्रीदशवै०
उक्तः शोभावर्जनस्थानविधिस्तदभिधानादष्टादशं पदं, तदभिधानाच्चोत्तरगुणाः, साम्प्रतमुक्तफलप्रदर्शनेनोपसंहरनाह-II अष्टादशखवंतित्ति, क्षपयन्त्यात्मानं तेन तेन चित्तयोगेनानुपशान्तं शमयोजनेन जीवं, किंविशिष्टा इत्याह-अमोहदर्शिन:- स्थानअमोहं ये पश्यन्ति, यथावत्पश्यन्ति य इत्यर्थः, त एव विशेष्यन्ते-तपसि-अनशनादिलक्षणे रताः-सक्ताः, किंविशिष्टे वर्जनफलम् | तपसीत्याह-संयमार्जवगुणे प्राकृतत्वादेकारः संयमार्जवे गुणौ यस्य तपसस्तस्मिन् , संयमऋजुभावप्रधाने शुद्ध इत्यर्थः, ते ।
एवंभूता धुन्वन्ति-कम्पयन्ति अपनयन्ति, पापानि पुराकृतानि जन्मान्तरोपात्तानि, नवानि-प्रत्यग्राणि पापानि न ते | साधवः कुर्वन्ति, तथा अप्रमत्तत्वादिति ।। २७६ ॥ किं च सओवसंतत्ति, सदोपशान्ताः -सर्वकालमेव क्रोधरहिताः
अममा:-सर्वत्र ममत्वशून्याः, अकिञ्चना-हिरण्यादिमिथ्यात्वादिद्रव्यभावकिञ्चनविनिर्मुक्ताः, स्वा-आत्मीया विद्या स्वविद्या-परलोकोपकारिणी केवल श्रुतरूपा तया स्वविद्यया विद्यया अनुगता-युक्ताः, न पुनः परविद्यया इहलोकोपकारिण्येति, त एव विशेष्यन्ते-यशस्विन:-शुद्धपारलौकिकयशोवन्तः, त एवंभूता ऋतौ प्रसन्ने-परिणते शरत्कालादौ विमल इव चन्द्रमा:-चन्द्रमा इव विमलाः, इत्येवंकल्पास्ते भावमलरहिताः सिद्धि-निवृत्ति तथा सावशेषकर्माणो विमानानि-सौधर्मावतंसकादीन्युपयान्ति-सामीप्येन गच्छन्ति त्रातार:-स्वपरापेक्षया साधय इति ॥२७७॥ ब्रवीमीति पूर्ववदेव ।।
दशवैकालिकश्रुतस्कन्धषष्टाध्ययनव्याख्या समाप्तेति ॥६॥
॥११७॥
Jain Education Internet
For Private & Personel Use Only
www.jainelibrary.org