SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ सुमति साधु श्रीदशवै० अ०६ २७५ ॥११५॥ सूक्ष्मा:-श्लक्ष्णाः, प्राणिनो-द्वीन्द्रियादयः, घसासु-शुषिरभूमिषु, भिलुकासु च-तथाविधभूमिराजीषु च, यांस्तु भिक्षुः अष्टादर्ष स्नपयन् स्नानजलोज्झनक्रियया विकृतेन-प्रासुकोदकेनोत्प्लावयति, तथा च तद्विराधनातः संयमपरित्याग इति ॥२७॥ स्थानम् निगमयन्नाह-तम्हत्ति, यस्मादेवमुक्तदोषप्रसङ्गस्तस्मात्ते साधवो न स्नान्ति शीतोदकेनोष्णोदकेन वा प्रासुकेना- |गा.२७३. पासुकेन वेत्यर्थः । किंविशिष्टास्त इत्याह-यावज्जीव-आजन्म, व्रतं घोरं-दुरनुचरमस्नानमाश्रित्य अधिष्ठातारः-अस्यैव कार इति ।। २७१ ॥ किं च-सिणाणन्ति, स्नानं पूर्वोक्तं, अथवा कल्कं-चन्दनादि, लोभ्रं-गन्धद्रव्यं, पद्मकानि च-कुमकेसराणि, चशब्दादन्यच्चैवंविधं गात्रस्योद्वर्तनार्थ-उद्वर्त्तननिमित्तं नाचरन्ति कदाचिदपि-यावजीवमिति भावसाधव इति ।। २७२ ॥ नगिणस्स वावि मुंडस्स, दीहरोमनहसिणो। मेहुणा उवसंतस्स, किं विभूसाइ कारिअं? ॥२७३॥ विभूसावत्तिअं भिक्खू, कम्मं बंधइ चिक्कणं । संसारसागरे घोरे, जेणं पडइ दुरुतरे ॥ २७४ ॥ NI विभूसावत्तिअं चेअं, बुद्धा मन्नंति तारिसं । सावजबहुलं चेअं, नेयं ताईहिं सेविअं ॥ २७५ ।। ___उक्तोऽस्नानविधिः, तदभिधानात्सप्तदशं स्थानं, साम्प्रतमष्टादशं शोभावर्जनास्थानमुच्यते-शोभायां नास्ति दोषः, " अलङ्कतश्चापि धर्ममाचरेदि " त्यादिवचनात् पराभिप्रायमात्रमाशङ्कयाह-नगिणत्ति-नग्नस्यापि-कुचेलवतोऽपि उपचारनग्नस्य निरुपचस्तिस्य नग्नस्य वा जिनकल्पिकस्येति सामान्यविषयमेव सूत्रं, मुण्डस्य-द्रव्यभावाम्यां, दीर्घरोमनखवता घरामनखवतः-११५ ॥ Jain Education Internet For Private & Personal Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy