________________
सुमति
साधु० श्रीदशवै०
अ० ६
॥ ११० ॥
Jain Education International
जाणि (इं) चत्तारि अभुजाई, इसिणाऽऽहारमाइणि । ताइं तु विवज्जंतो, संजमं अणुपालए ॥२५५॥ पिंडं सिज्जं च वत्थं च, चउत्थं पायमेव य । अकप्पिअं न इच्छिज्जा, पडिगाहिज्ज कपिअं ॥ २५६ ॥ जे निआगं ममायंति, कीअमुद्देसि आहडं । वहं ते समणुजाणंति, इअ उत्तं महेसिणा ॥ २५७ ॥ तन्हा असणपाणाई, कीअमुद्देसिआहडं । वज्जयंति ठिअप्पाणो, निग्गंथा धम्मजीविणो ॥ २५८ ॥
उक्तो द्वादशस्थानविधिः, प्रतिपादितं कायषट्कम्, एवत्प्रतिपादनादुक्ता मूलगुणाः, अधुनैतद्वृत्तिभूतोत्तरगुणावसरः, ते चाकल्पादयः षडुत्तरगुणाः, यथोक्तं-" अकप्पो गिहिभायणं "ति, तत्राकल्पो द्विविधः- शिक्षकस्थापनाकल्पः अकल्पस्थापनाकल्पश्च । तत्र शिक्षकस्थापना कल्पोऽनधी तपिण्डनिर्युक्तत्यादिनाऽऽनीतमप्याहारादि न कल्पत इति उक्तं च - " अणहीया खलु जेणं पिंडेसणसेजवत्थपाएसा । तेणाणियाणि जइणो कप्पंति न पिंडमाईणि ॥ १ ॥ उउबर्द्धमि पण अणला वासावासे उ दोवि णो सेहा । दिक्खिजंती पायं ठदणाकप्पो इमो होह || २ || " अकल्पस्थापना कल्पं त्वाह-जाणित्ति, यानि चत्वारि अभोज्यानि-संयमापकारित्वेना कल्पनीयानि, ऋषीणां साधूनामाहारादीन्याहारवसतिवस्त्रपात्राणि तानि तु विधिना विवर्जयन् संयमं - सप्तदशप्रकारं अनुपालयेत् तदत्यागे संयमाभावादिति ॥ २५५ ॥ एतदेव स्पष्टयति-पिंडंति, पिण्डं शय्यां च वस्त्रं च चतुर्थं पात्रमेव च एतत्स्वरूपं प्रकटार्थं, अकल्पिकं नेच्छेत्प्रतिगृह्णीयात्कल्पिकं यथोचितमिति ।। २५६ || अकल्पिके दोषमाह-जेत्ति, ये केचन द्रव्यसाध्वादयो द्रव्यलिङ्गधारिणो नियागंति नित्यमामन्त्रितपिण्डं
For Private & Personal Use Only
त्रयोदश
स्थानम्
गा. २५५
२५८
॥ ११० ॥
www.jainelibrary.org