________________
सुमति
IHA
नवमं
साधु श्रीदशवै०
स्थान गा.२४१२४४
॥१०७॥
जायते न इच्छंति, पावगं जलइत्तए । तिक्खमन्नयरं सत्थं, सबओवि दुरासयं ॥ २४१ ॥ पाईणं पडिणं वावि, उड्ढे अणुदिसामवि । अहे दाहिणओ वावि, दहे उत्तरओवि अ ॥ २४२ ॥ भयाणमेसमाघाओ, हववाहो न संसओ। तं पईवपयावद्रा, संजया किंचि नारभे ॥ २४३ ॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । तेउकायसमारंभ, जावजीवाइ वजए ॥ २४४॥
साम्प्रतं नवमस्थानविधिमाह-जायतेयंति-जाततेजाः-अग्निः तं जाततेजसं नेच्छन्ति, मनःप्रभृतिभिरपि पापपाप एव पापकस्तं, प्रभूतसच्चापकारित्वेनाशुभमित्यर्थः । किं नेच्छन्तीत्याह-ज्वालयितुं-उत्पादयितुं वृद्धि वा नेतुं, किंविशिष्टमित्याह-तीक्ष्णं-छेदकरणात्मकं, अन्यतरशस्त्रं-सर्वशस्त्रं, एकधारादिशस्त्रव्यवच्छेदेन सर्वतोधारशस्त्रक पमिति भावः । अत एव सर्वतोऽपि दुराश्रयं सर्वतोधारत्वेनानाश्रणीयमिति ।। २४१ ॥ एतदेव स्पष्टयनाह-पाईणंति, प्राच्या प्रतीच्यां वापि-पूर्वायां पश्चिमायां चेत्यर्थः । ऊर्ध्वमनुदिक्ष्वपि "सुपा सुपो भवन्ती"ति, सप्तम्यर्थेष ष्ठी, विदिश्वपीत्यर्थः,। अधो दक्षिणतश्चापि दहति-दाह्यं भस्मीकरोति, उत्तरतोऽपि च, सर्वासु दिक्षु विदिक्षु च दहतीति ।। २४२ ॥ यतश्चैवमतः भूयाणंति, भूतानां स्थावरादीनां एष आघातः आघातहेतुत्वादाघातः, हव्यवाहः-अग्निः न संशय इत्येवमेवैतद् आघात एवेतिभावः। येनैवं तेन तं हव्यवाहं प्रदीपप्रतापनार्थ-आलोकशीतापनोदार्थ संयता:-साधवः किञ्चित्सङ्घट्टनादिनाऽपि नारभन्ते, संयतत्वापगमनप्रसङ्गादिति ।। २४३॥ यस्मादेवं तम्हति व्याख्या पूर्ववत् ।। २४४॥
१०७॥
Jain Education Internal
For Private & Personel Use Only
१
w w.jainelibrary.org