SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सुमति पष्टु साधु श्रीदशवै० अ०६ स्थानम् गा. २३१२३५ ॥१०५॥ अपायाभावेन तदन्यगुणवृद्धिसम्भवादप्रतिपात्येव तपःकर्म-तपोऽनुष्ठानं, सर्वबुद्धैः-सर्वतीर्थकरैर्वणितं-देशितं, किंविशिष्टमित्याह-यावल्लज्जासमा वृत्तिः-लज्जा-संयमः तत्समा-सदृशी तुल्या संयमाविरोधिनीत्यर्थः, वर्तनं वृत्तिः-देहपालना, एकभक्तं च भोजनं-एकं भक्तं द्रव्यतो भावतश्च यस्मिन् भोजने तत्तथा, द्रव्यत एक-एकसंख्यानुगं, भावत एककर्मवन्धाभावादद्वितीय, तदिवस एव रागादिरहितस्यान्यथा भावतः एकत्वाभावादिति ॥२३१ ॥ रात्रिभोजने प्राणातिपातसम्भवेन कर्मबन्धसद्वितीयतां दर्शयति-संति मेत्ति, सन्त्येते-प्रत्यक्षोपलभ्यमानस्वरूपाः सूक्ष्माः-लक्ष्णाः, प्राणिनोजीवास्त्रसा-द्वीन्द्रियादयः, अथवा स्थावरा:-पृथिव्यादयो यान् प्राणिनो रानावपश्यन् चक्षुषा कथमेषणीयं-सच्चानुपरोधेन चरिष्यति-भोक्ष्यते च, असम्भव एव रात्रावेषणीयचरणस्येति ॥२३२।। एवं रात्रिभोजने दोषमभिधायाधुना ग्रहणगतमाह-उदउल्लंति, उदकाई-पूर्ववदेकग्रहणे तजातीयग्रहणात् सस्निग्धादिपरिग्रहः । तथा बीजसंसक्तं-बीजैः संसक्तंमिश्रमोदनादीति गम्यते । अथवा बीजानि पृथग्भूतान्येव संसक्तं चारनालाद्यपरेणेति । तथा प्राणिनः संपातिमप्रभृतयो निपतिता मह्यां-पृथिव्यां सम्भवन्ति । ननु दिवाप्येतत्सम्भवत्येव ?, सत्यं, किंतु परलोकभीरुश्चक्षुषा पश्यन् दिवा तान्युदकार्दादीनि विवर्जयेत्, रात्रौ तु तत्र कथं चरेत संयमानुपरोधेन ? असम्भव एव शुद्धचरणस्येति ॥२३३॥ उपसंहरबाह-एयं चत्ति, एतदनन्तरोदितं प्राणिहिंसारूपं चशब्दादन्यं चात्मविराधनादिलक्षणं च दोषं दृष्ट्वा मतिचक्षुषा ज्ञातपुत्रेण भगवता भाषितं-उक्तं, सर्वाहार-चतुर्विधमप्यशनादिलक्षणमाश्रित्य न भुञ्जन्ते निर्ग्रन्थाः-साधवो रात्रिभोजनमिति ॥२३४॥ पुढविकायं न हिंसंति, मणसा वयसा कायसा। तिविहेणं करणजोएणं, संजया सुसमाहिआ॥२३५।। ॥१०५॥ en Educaton tema For Private Personal Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy