________________
14
सुमतिसाधु० श्रीदशवै०
पश्चम स्थानम् गा.२३१२३४
अ०६
॥१०४॥
यतश्चैवमतः-न सोत्ति, नासौ निरभिष्वङ्गस्य वस्त्रधारणादिलक्षणः परिग्रह उक्तो बन्धहेत्वभावात , केन ?, ज्ञातपुत्रेण-ज्ञात-उदारक्षत्रियः सिद्धार्थस्तत्पुत्रेण वर्धमानेन, वात्रा-स्वपरपरित्राणसमर्थेन, अपि तु मूर्छा-असत्स्वपि वस्त्रादिष्वभिष्वङ्गः परिग्रह उक्तो बन्धहेतुत्वात् , अर्थतस्तीर्थकरेण, ततोऽवधार्य इत्येवमुक्तो महर्षिणा-गणधरेण सूत्रे शय्यंभवेनेति ॥ २२९ ।। आह-वस्वाद्यभावभाविन्यपि मृर्छा कथं वस्त्रादिभावे साधूनां न भविष्यति ?, उच्यते, सम्पग्बोधेन तद्धीजभूताबोधोपघाताद्, आह च-सव्वत्थत्ति, सर्वत्र-उचिते क्षेत्रे काले च उपधिनाऽऽगमोक्तेन वस्त्रादिना सहापि बुद्धा-यथावद्विदितवस्तुतच्याः साधवः, संरक्षणपरिग्रह इति-संरक्षणाय षण्णां जीवनिकायानां वस्त्रादिपरिग्रहे सत्यपि नाचरन्ति ममत्वमिति योगः। किंचानेन ?, ते हि भगवन्तः, अप्यात्मनोऽपि देह इति-आत्मनो धर्मकायेऽपि विशिष्टप्रतिबन्धसंगतिं न कुर्वन्ति, ममत्वमात्मीयाभिमानं वस्तुतच्चाववोधात् , तिष्ठतु तावदन्यत् , ततश्च देहवदपरिग्रह एवेति ॥२३०॥ अहो निच्चं तवोकम्म, सबबुद्धहिं वण्णि। जाव लज्जासमा वित्ती, एगभत्तं च भोअणं ॥२३१ ।। संतिमे सुहमा पाणा, तसा अदुव थावरा । जाइं राओ अपासंतो, कहमेसणिअं चरे? ॥२३२॥ | उदउल्लं बीअसंसत्तं, पाणा निवडिया माहिं । दिआ ताइं विवजिज्जा, राओ तत्थ कहं चरे ? ॥२३३ ।। | एअंच दोसं दवणं, नायपुत्तेण भासिअं। सवाहारं न भुजंति, निग्गंथा राइभोअणं ॥ २३१॥
उक्तः पञ्चमस्थानविधिः, अधुना षष्ठमधिकृत्याह-अहोत्ति, अहो नित्यं तपःकम्मति, अहो-विस्मये नित्यं नाम
G
॥१०४॥
Jain Education Internationa
For Private & Personel Use Only
www.jainelibrary.org