SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ सुमति पञ्चम स्थानम् गा. २२९ साघु० श्रीदशवै० ब०६ ॥१०॥ न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा। मुच्छा परिग्गहो वुत्तो, इअ वुत्तं महसिणा ॥ २२९॥ सम्वत्थुवाहणा बुद्धा, संरक्षणपरिग्गहे । अविअप्पणोऽवि देहमि, नायरति ममाइयं ॥ २३०॥ ___ प्रतिपादितश्चतुर्थस्थानविधिः, इदानीं पश्चमस्थानविधिमाह-विडमुत्ति, बिडं-गोमूत्रादिपक्कं, उद्भेद्य-सामुद्रादि यद्वा बिडं-प्रासुकं उद्भेद्यमप्रासुकमपि, एवं द्विप्रकारं लवणं, तथा तैलं सपिश्च फाणितं, तत्र तैलं प्रतीतं, सप्पिः-घृतं, फाणितंद्रवगुडः, एतल्लवणादि एवं प्रकारमन्यच्च न ते साधवः संनिधिमिच्छन्ति-पर्युषितं स्थापयन्ति, ज्ञातपुत्रवचोरता:भगवद्बर्द्धमानवचसि निस्सङ्गताप्रतिपादनपरे रताः-सक्ता इति ।।२२६॥ संनिधिदोषमाह-लोहस्सेत्ति, लोभस्य-चारित्रविनकारिणश्चतुर्थकषायस्यैषोऽनुस्पर्श:-एषोऽनुभावो यदुत एतत् सन्निधिकरणमिति, यतश्चैवमतो[ऽहं]-मन्ये मन्यन्ते प्राकतशैल्या एकवचनं, एवमाहुः तीर्थकरगणधराः, अन्यतरामपि-स्तोकामपि यः स्यात्, यः कदाचित्सन्निधिं कामयतेसेवते गृहीति-गृहस्थोऽसौ भावतः प्रव्रजितो नेति, दुर्गतिनिमित्तानुष्ठानप्रवृत्तेः, सन्निधीयते नरकादिष्वात्माऽनयेति, सन्निधिरिति शब्दार्थात् प्रबजितस्य च दुर्गतिगमनाभावादिति ।। २२७ ।। आह-यद्येवं वस्त्रादि धारयतां कथं साधुनामसनि. धिरित्यत्राह-जंपित्ति, यदप्यागमोक्तं, वस्त्रं वा-चोलपट्टकादि, पानं वा-अलाबुकादि, कम्बलं-वर्षाकल्पादि, पादपुञ्छनंरजोहरणं, तदपि संयमलज्जार्थमिति, संयमार्थ पात्रादि, तद्व्यतिरेकेण पुरुषमात्रेण गृहस्थभाजने सति संयमपालनाभावात, लज्जार्थ वस्त्रं, तद्व्यतिरेकेणाङ्गनादौ विशिष्टश्रुतपरिणत्यादिरहितस्य निर्लज्जतोपपत्तेः, अथवा संयम एव लज्जा संयमलजा तदर्थ सर्वमेतद्वस्त्रादि धारयन्ति, पुष्टालम्बनविधानेन परिहरंति च-परिभुञ्जते च मूर्छारहिता इति ॥ २२८ ॥ ॥१०॥ Jain Education Intemaliona For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy