________________
चतुर्थ
सुमतिसाधु श्रीदश०
स्थानम् गा.२२४
२२८
॥१.२।।
जानन्ति-नानुमन्यन्त संयता इति ॥ २२३ ॥
अबंभचरिअं घोरं, पमायं दुरहिट्रिअं। नायरंति मुणी लोए, भेआययणवजिणो ॥ २२४ ॥ मूलमेयमहम्मस्स, महादोससमुस्सयं । तम्हा मेहुणसंसग्गं, निग्गंथा वजयांत णं ॥ २२५॥
उक्तः तृतीयस्थानविधिः,चतुर्थस्थानविधिमाह-अबंभत्ति,अब्रह्मचर्य प्रतीतं, घोरं-रौद्रं रौद्रानुष्ठानहेतुत्वात् , प्रमादप्रमादवत् सर्वप्रमादमूलत्वात् , दुरधिष्ठितं-दुराश्रयं दुस्सेवं विदितजिनवचनेनानन्तसंसारहेतुत्वात् , यतश्चैवमतो नाचरन्तिनासेवन्ते मुनयो लोके-मनुष्यलोके किं विशिष्टा ? इत्याह-भेदायतनवर्जिन:-भेदः-चारित्रभेदः तदायतनं-तत्स्थानमिदमेवोक्तन्यायात्तद्वर्जिनः चारित्रातिचारभीरव इति ॥ २२४ ॥ एतदेव निगमयति-मूलमेयत्ति, मूलं-बीजमेतदधर्मस्य पापस्येति पारलौकिकोऽयायः। महादोषसमुच्छूयं महतां दोषाणां चौर्यप्रवृत्यादीनां समुच्छ्रयं-सङ्घातबदिति ऐहिकोऽपायः। यस्मादेवं तस्मान्मैथुनसंसर्ग इति प्राकृतत्वात् मैथुनसंसर्ग-मैथुनसम्बन्धं योषिदालापाद्यपि निर्ग्रन्था वर्जयन्ति, णमिति वाक्यालङ्कार इति ॥ २२५ ॥ विडमुब्भेइमं लोणं, तिल्लं सप्पिं च फाणि।न ते संनिहिमिच्छति, नायपुत्तवओरया ॥ २२६ ॥ लोहस्सेस अणुप्फासे, मन्ने अन्नयरामवि । जे सिआ सन्निहिं कामे, गिही पवइए न से॥ २२७॥ जंपि वत्थं वा पायं वा, कंबलं पायपुंछणं । तंपि संजमलजट्टा, धारंति परिहरति अ॥ २२८॥
॥१०॥
Jain Education Intematon
For Private & Personel Use Only
www.jainelibrary.org