________________
सुमति
साधु श्रीदशवै०
द्वितीयतृतीयस्थाने गा. २२२. २२३
॥१०॥
उक्तः प्रथमस्थानविधिः, अधुना द्वितीयस्थानविधिमाह-अप्पणट्ठत्ति, आत्मार्थ-आत्मनिमित्तं अग्लान एव ग्लानोहं | ममानेन कार्यमित्यादि, परार्थ वा-परनिमित्तं वा एवमेव, तथा क्रोधादा त्वं दास इत्यादि, एकग्रहणे तजातीयग्रहणमिति मानाद् वा, अबहुश्रुत एवाहं बहुश्रुत एवमादि, मायातो भिक्षाटनपरिजिहीर्षया पादपीडा ममेत्यादि,लोभात् शोभनतरानलामे | सति प्रान्तस्यैषणीयत्वेऽपि अनेषणीयमिदमित्यादि, यदिवा भयात्किश्चिद्वितथं कृत्वा प्रायश्चित्तभयान कृतमित्यादि, एवं हासादिष्वपि वाच्यं । अत एवाह-हिंसक-परपीडाकारि सर्वमेव न मृषा यात् स्वयं, नाप्यन्यं वादयेत् , एकग्रहणे तज्जातीयग्रहणात अवतोऽप्यन्यान्न समनुजानीयादिति ॥ २२०॥ किमित्येतदित्याह-मुसाबाउत्ति, मृपावादो हि लोके सर्वस्मिन्नेव सर्वसाधुभिर्गहितो-निन्दितः, सर्वव्रतापकारित्वात् , प्रतिज्ञातापालनात् अविश्वासश्च-अविश्वसनीयश्च
भूतानां मृषावादी भवति, यस्मादेवं तस्मात् मृषावादं वर्जयेदिति ॥ २२१॥ | चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं । दंतसोहणमित्तंपि, उग्गहांस अजाइया ॥ २२२ ॥ | तं अप्पणा न गिण्हंति, नोवि गिण्हावए परं। अन्नं वा गिण्हमाणंपि, नाणुजाणंति संजया॥२२३॥ ____ उक्तो द्वितीयस्थानो विधिः । साम्प्रतं तृतीयस्थानविधिमाह-चित्तमंतंत्ति, चित्तवत्-द्विपदादि वा अचित्तवद्वाहिरण्यादि, अल्पं वा-मूल्यतःप्रमाणतश्च, यदि वा बहु-मूल्यप्रमाणाभ्यामेव, किं बहुना? दन्तशोधनमात्रमपि तथाविधं तृणादि अवग्रहे यस्य तत्तमयाचित्वा न गृह्णन्ति साधवः कदाचनेति ।। २२२ ॥ एतदेवाह-तमिति, तचित्तवदादि आत्मना न गृह्णन्ति विरतत्वान्नापि ग्राहयन्ति परं विरतत्वादेव, तथाऽन्यं वा गृह्णन्तमपि स्वयमेव न अनु
॥१.१॥
Jain Education Inter
For Private & Personal Use Only
Twww.jainelibrary.org