________________
सुमतिसाधु
श्रीदशवै०
आचारपृच्छा गा.२१०. २१४
॥ ९७॥
व्याख्यातं पिण्डैषणाध्ययन, अधुना महाचारकथाख्यमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने साधोमिक्षाविशोधिरुक्ता, इह तु गोचरप्रविष्टेन सता स्वाचारं पृष्टेन तद्विदाऽपि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य इति, अपि त्वालये गुरवो वा कथयन्तीति वक्तव्यमित्येतदुच्यते, उक्तं च-" गोयरग्गपविट्ठो उ, न निसीएज कत्थइ । | कहं च न पबंधेजा चिट्ठिता ण व संजए ॥१॥" इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनमिति, तच्चेदंनाणदंसणसंपन्नं, संजमे अ तवे रयं । गणिमागमसंपन्नं, उजाणम्मि समोसढं ॥ २१० ॥ रायाणो रायमच्चा य, माहणा अदुव खत्तिआ। पुच्छंति निहुअप्पाणो, कहं भे आयारगोयरो? ॥२११॥ तेसिं सो निहुओ दंतो, सबभूअसुहावहो । सिक्खाए सुसमाउत्तो, आयक्खइ विअक्खणो ॥२१२॥ हंदि धम्मत्थकामाणं, निग्गंथाणं सुणेह मे । आयारगोअरं भीम, सयलं दुरहिट्ठिअं ॥ २१३ ॥ नन्नत्थ एरिसं वुत्तं, जं लोए परमदुच्चरं । विउलट्ठाणभाइस्स, न भूअं न भविस्सइ ॥ २१४ ॥
नाणदंसणसंपन्नमित्यादि, ज्ञानदशनसंपन्न ज्ञान-श्रुतज्ञानादि दर्शनं-क्षायोपशमिकादि ताभ्यां संपन्नं-युक्तं संयमेपञ्चाश्रवविरमणादौ तपसि च-अनशनादौ रतं-आसक्तं, गणोऽस्यास्तीति गणी तं गणिनं-आचार्य, आगमसंपन्नंविशिष्टश्रुतघरं, बह्वागमत्वेन प्राधान्यख्यापनार्थमेतत् । उद्याने-क्वचित्साधुप्रायोग्ये समवसृतं-स्थितं धर्मदेशनार्थ वा प्रवृत्तमिति ॥ २१० ॥ तत्किमित्याह-रायाणोत्ति, राजानः-नरपतयः, राजामात्याश्च-मन्त्रिणः, ब्राह्मणाः प्रतीताः
॥ ९७ ।।
an Education Inter
For Private
Personal Use Only
www.jainelibrary.org