________________
सुमतिसाधु श्रीदशवै० अ०५, उ.२
स्वपक्षस्तेयनिषेधः गा.१९०१९४
॥ ९१
| जाणंतु ता इमे समणा, आययट्ठी अयं मुणी । संतुट्ठो सेवए पंतं, लूहवित्ती सुतोसओ ॥ १९३॥ प्रअणदा जसोकामी, माणसम्माणकामए। बहुं पसवई पावं, मायासलं च कुबह ॥ १९४॥ - स्वपक्षस्तेयप्रतिषेधमाह-सियत्ति, स्यात्-कदाचित् एकका-कश्चिदत्यन्तजघन्यो लब्ध्वोत्कृष्टमाहारं लोभेनअभिष्वङ्गेण विनिगूहते-अहमेव भोक्ष्य इत्यन्तप्रान्तादिनाऽऽच्छादयति । किमित्यत आह-मा मम इदं भोजनजातं दर्शितं सदृष्ट्वा आचार्यादिः स्वयमादद्यादात्मनैव गृहीयादिति ॥ १९० ॥ अस्य दोषमाह-अत्तत्ति, आत्मार्थ एव जिघन्यो गुरुः-पापप्रधानो यस्य स आत्मार्थगुरुः, लुब्धः सन् क्षुद्रभोजने बहु-प्रभृतं पापं प्रकरोति-मायया द्रारिद्यकर्मेत्यर्थः । अयं परलोकदोषः। इहलोकदोपमाह-दुस्तोषश्च भवति-येन केनचिदाहारेणास्य क्षुद्रसत्वस्य तुष्टिः कर्तन शक्यते । अत एव निर्वाणं च न गच्छति-इहलोके च धृति न लभते, अनन्तसंसारिकत्वाद्वा मोक्षं न गच्छतीति ॥१९॥ एवं यः प्रत्यक्षमपहरति स उक्तः, अधुना यः परोक्षमपहरति स उच्यते-सियत्ति, स्यादेको लब्ध्वेति पूर्ववत् , विविधंअनेकप्रकारं पानभोजनं तत्र भिक्षाचर्यागत एव भद्रकं भद्रकं-घृतपूर्णादि भुवा विवर्ण-विगतवर्ण आम्लखलादि, विरसं-विगतरसं-शीतौदनादि आहरेद-आनयेदिति ।। १९२ ।। स किमर्थमेवं कुर्यादित्याह-जाणंतुत्ति, जानन्तु मां तावत् इमे श्रमणा:-शेषसाधवः यथा आयतार्थी-मोक्षार्थी अयं मुनिः-साधुः सन्तुष्टो-लाभालामयोः समः सेवते प्रान्तं-असारं, रूक्षवृत्तिः-संयमवृत्तिः, सुतोष्या-येन केनचित्तोपं नीयत इति ॥१९३॥ एतदेव किमर्थ मेवं कर्यादित्याहपूयणट्टत्ति, पूजार्थमेवं कुर्वतः स्वपक्षपरपक्षाम्यां सामान्येन पूजा भविष्यतीति, यशस्कामी-अहो अयमिति प्रवादार्थी
॥९१ ॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org