________________
सुमतिसाधु श्रीदशवै०
द्रव्य-माव
यतना गा. १६८१७५
उ०२
दोषासादिति स्वार्थः ॥ १३७ ।। उक्ता क्षेत्रयतना। द्रव्ययतनामाह-अग्गलमिति, अर्गलां-गोपुरकपाटादिसम्बन्धिनी | फलक-पाटकादिस्थगनं, द्वारं शाखामयं, कपाटं द्वारयन्त्रं, वापि संयतोऽवलम्ब्य न तिष्ठेल्लाघवविराधनादोषात् । गोचराग्रगतो-भिक्षाप्रविष्टः, संयतो यतिः मुनिपर्यायौ, तदुपदेशाधिकाराददुष्टावेवेति ॥ १६८ ॥ उक्ता द्रव्ययतना। मावयतनामाह-समणंति, श्रमण-निर्ग्रन्थादिरूपं, ब्राह्मणं-धिग्वर्ण, वापि कृपणं वा पिण्डोलकं, वनीपक-दरिद्रं चतुर्णामन्यतममुपसङ्कामन्तं-सामीप्येन गच्छन्तं वा गतं वा भक्तार्थ पानार्थ वा संयतः-साधुरिति ।। १६९ ॥ तमइक्कमित्तुत्ति, तं-श्रमणादिमतिक्रम्योल्लङ्घय न प्रविशेत्, दीयमाने च समुदाने तेभ्यो न तिष्ठेच्चक्षुर्गोचरे, कस्तत्र विधिरित्याह-एकान्तमवक्रम्य तत्र तिष्ठेत्संयत इति ॥ १७० ।। अन्यथैतदोषा इत्याह-वणीमगरसत्ति, वनीपकस्य वा तस्येत्येतत् श्रमणाद्युपलक्षणं, दातुर्वा उभयोर्वा अप्रीतिः कदाचित्स्यात्-अहो अलौकिकन्जतैतेपामिति लघुत्वं प्रवचनस्य वाऽन्तरायदोषश्चेति तस्मान्नैव कुर्यात् ।। १७१ ।। किंतु-पडिसेहिए वेति, प्रतिषिद्धे वा दत्ते वा ततः स्थानात् तस्मिन् वनीपकादौ निवर्तिते सति उपसङ्क्रामेत् भक्तार्थं पानार्थं वापि संयत इति ।। १७२ ।। उप्पलं पउमं वावि, कुमुअं वा मगदंतिअं। अन्नं वा पुप्फसच्चित्तं, तं च संलुंचिआ दए ॥ १७३॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं॥ १७४॥ उप्पलं पउमं वावि, कुमुअंवा मगदंति। अन्नं वा पुप्फसच्चित्तं, तं च संमद्दिआ दए ॥ १७५ ॥
Jan Education International
For Private
Personal Use Only