________________
सुमति
साधु०
श्रीदशवै०
अ० ५,
उ० २
।। ८५ ।।
Jain Education Internat
( ओघ० नि० गा० २७७ ) ।। १६३ || अकालचरणे दोषमाह-अकालेत्ति, अकालचारी कश्चित्साधुरलब्धभैक्षः केनचित्साधुना 'प्राप्ता भिक्षा न वे' त्यभिहितः सन्नेवं ब्रूयात्-कुतोऽत्र स्थण्डिलसन्निवेशे भिक्षा १, स तेनोक्तः- अकाले चरसि भिक्षो ! प्रमादात् स्वाध्यायलोभाद्वा, कालं न प्रत्युपेक्षसे, किमयं भिक्षाकालो न वेति, अकालचरणेनात्मानं च क्लामयसि ( ग्लपयसि ) दीर्घाटनन्यूनोदरताभावेन, सन्निवेसं च गर्हसि भगवदाज्ञालोपतो दैन्यं प्रतिपद्येति । यस्मादयं दोषः सम्भाव्यते तस्मादकालाटनं न कुर्यादिति ॥ १६४ ।। आह च सइत्ति, सति-विद्यमाने भिक्षाकाले भिक्षासमये चरेत् भिक्षुः । अन्ये तु व्याचक्षते - स्मृतिकार्ड एव भिक्षाकालोऽभिधीयते, संस्मर्यन्ते यत्र भिक्षुकाः स स्मृतिकालः तस्मिन् चरेत् भिक्षुःभिक्षार्थं यायात् कुर्यात् पुरुषकारं जङ्घाबले सति वीर्याचारं न लङ्घयेत्, तत्र चालाभे सति भिक्षाया अलाभ इति न च शोचयेत्, वीर्याचाराराधनस्य निष्पन्नत्वात्, तदर्थं च भिक्षाटनं नाहारार्थमेवातो न शोचयेत् अपि तु तप इत्यधिसहेत, अनशन न्यूनोदरतालक्षणं तपो भविष्यतीति सम्यग् विचिन्तयेदिति ।। १६५ ।। उक्ता कालयतना । अधुना क्षेत्रयतनामाह-तहेवत्ति, तथैवोच्चावचाः - शोभनाशोभनभेदेन नानाप्रकाराः प्राणिनो भक्तार्थं समागताः बलिप्राभृतिकादिवागता भवन्ति, तजुगं तेषामभिमुखं न गच्छेत्, तत्सन्त्रासनेनान्तरायाधिकरणादिदोपात्, किन्तु यतमेव पराक्रामेत्, तदुद्वेगमनुत्पादयन्निति ॥ १६६ ॥ किंच-गोयरग्गत्ति, गोचरायप्रविष्टस्तु भिक्षार्थं प्रविष्ट इत्यर्थः । न निषीदेत्-नोपविशेत् कश्वित्-गृहदेवकुलादौ संयमोपघातादिप्रसङ्गात् कथां च धर्मकथादिरूपां न प्रबध्नीयात्प्रबन्धेन न कुर्याद् अनेनैकव्याकरणैकज्ञातानुज्ञामाह, अत एवाह-स्थित्वा कालपरिग्रहेण संयत इति, अनेषणाद्वेषादि
For Private & Personal Use Only
कालक्षेत्रयतना
गा. १६३१६७
॥ ८५ ॥
www.jainelibrary.org