________________
सुमतिसाधु० श्रीदशवै०
अ० ५, उ० १
॥ ८१ ॥
तेऽन्यत्रोपययुः, अत्रान्तरे प्रातरेव स्नातुं परिव्राजकस्तडागमुपजगाम, दुष्टश्च तेन सरःसमीपवर्त्तिन्यां जाल्यामसौ तुरंगमः, प्रत्यभिज्ञातश्चापि सोऽयमश्वः, योऽस्माकमुपकारिणो भागवतस्य तस्करैरपहृतः, ततस्तेन गत्वा स्वमावास अग्रे गृहपतिपुरुषाणामुक्तं यथा मम स्नातुमितः सरसि गतस्य जाल्यां धौतवासो विस्मृतं, ततस्तैः पुमान् प्रहितः तेन च तत्र गतेन egiser वाजी समानीतश्च कथितो गृहपतये, ततस्तेन समचिन्ति-अपि व्याजेन व्रतिना ममोपकारः कृतस्तत्कथमहं निर्व्याजदानफलं विहाय प्रत्युपकारेण दानप्रवृत्तिं विदधामीति संप्रधार्य गदितोऽसौ परिव्राजकः-भद्र ! व्रज त्वमिदानीं, न कृतोपकारिणे भवते तप्तं विधास्यामि, यस्मादुपकारिणि विहितं दानं निष्फलं उपजायत इति, एवं मुधादायीति ।
मुधाजीविन्युदाहरणमुच्यते ( दृ० ४) - कश्चिन्नरपतिरनित्यतां विलोक्य प्रियाणामपि पुत्रकलत्र मित्र पौत्रादीनां समुपजातवैराग्यो धर्माधर्मपरीक्षां चक्रे को वा अनिसृष्टं भुंक्ते ? ततस्तं परीक्षयामीति संप्रधार्य पुरुषानामुधिकयादिदेश यथा राजा मोदकान् प्रयच्छति, समागत्य परिगृह्यतामिति । समाकण्र्योद्घोषणामुपजग्मुः कापटिकप्रभृतयोऽर्थिनो जनाः, पृष्टाय ते भूभुजा
Jain Education International
भवन्तो जीवन्ति १, तत्रैकेनोक्तं-अहं तावत् मुखेन । अपरेण गदितं अहं पादाभ्यां, अपरेणोक्तं-अहं हस्ताभ्यां अन्येन निवेदितं - अहं लोकानुग्रहणेन, क्षुल्लकसाधुनोक्तं- अहं मुधिकयेति, ततस्तां नरपतिः पुनरपि जगाद - कथमेवेति । ततः प्रथमो जगाद अहं तावत्कथको जनानां विस्तार्य रामायणादिकथां कथयामि तेन मुखेन जीवामीति । द्वितीयः प्राह- अहं हि लेखवाहको घटिकामध्ये योजनं लंघयामि तेन पादाभ्यां जीवामि । तृतीयः प्राह- अहं हि लेखकः, अतो हस्ताभ्यां जीवामि । भिक्षुकेणोक्तम्- अहं प्रव्रजितः अतो लोकाणामनुग्रहेण निर्वहणं । पुनः क्षुल्लकसाधुनोक्तं, प्रव्रजितोऽहं जन्मजरा
For Private & Personal Use Only
सुधा
जीविनि
क्षुल्लकोदाहरणम्
॥ ८१ ॥
www.jainelibrary.org