________________
सुमति
साधु० श्रीदशचै०
अ० ५,
उ० १
॥ ८० ॥
Jain Education Internat
ouञ्जनादियुक्तं असूचितं वा तद्रहितं वा " कथयित्वा अकथयित्वा वा दत्त "मित्यन्ये । आर्द्र- प्रचुरण्यञ्जनं, यदि वा शुष्कं स्तोकव्यञ्जनं वा किं तदित्याह-मन्धुकुल्माष भोजनं मन्धु-बदर चूर्णादि, कुल्माषाः सिद्धमापाः, "यत्रमापा" इति चिदिति ॥ १५७ ॥ एतद्भोजनं किमित्याह-' उपपन्नं 'त्ति सूत्रं, उत्पन्नं विधिना प्राप्तं, नातिहीलयेत् सर्वथा नं निन्दयेत्, अल्पमात्रमेतत् न देहपूरकमिति किमनेन ? बहु वा अमारप्रायमिति । वाशब्दस्य व्यवहितः सम्बन्धः किंविशिष्टं तदित्याह - प्रासुकं - प्रगतासु निर्जीवमित्यर्थः । अन्ये तु व्याचक्षते - " अल्पं वा वाशब्दाद्विरसादि वा बहु प्रासुकं सर्वथा शुद्धं नातिहीलये"दिति, अपि त्वेवं भावयेत्-यदेवेह लोका ममानुपकारिणः प्रयच्छन्ति तदेव शोभनमिति, एवं मुधा लब्धंकोण्टकादिव्यतिरेकेण प्राप्तं, मुहाजीवी - सर्वथा अनिदान जीवी, “जात्याद्यनाजीवक " इत्यन्ये, भुञ्जीत दोषवर्जितंसंयोजनादिरहितमिति || १५८ ।। एतदुरापमपि दर्शयति-' दुल्लह 'त्ति-दुर्लभा एवं मुधादातारः, तथाविध भागवतत्रत् मुधाजीविनोऽपि दुर्लभाः तथाविधचेलकवत्, अमीषां फलमाह - सुधादातारों मुधाजीविनश्व द्वावप्येतौ गच्छतः सुगतिसिद्धगतिं कदाचिदनन्तरमेव, कदाचित् देवलोकमानुषत्वप्रत्यागमपरम्परया, ब्रवीमीति पूर्ववत् ।
अत्र भागवतोदाहरणम् (दृ० ३) - कश्चित् परिव्राजकः कञ्चनापि भक्तिमन्तं भागवतमवादीत्-यदि मदीयोदन्त मुद्रहसि ततोऽहं तत्र गृहे वर्षासमयमतिवाहयामि तेनोक्तं-यदि मदीयां तप्तिं न करोषि तेनोक्तं एवं करिष्ये, ततः प्रदत्तस्तेन तस्मै समाश्रयः, तद्रक्षणं चकार भोजनादिभिस्तस्य गृहाधिपतिः, अतिक्रान्ते च कियत्यपि काले एकदा प्राप्तच्छिद्रेश्वरैस्तस्य भागवतस्य प्रधानोऽखः प्रमादेन रक्षकाणामपहृतः, प्रभातं वर्त्तते इति न शक्ताः ते तमचं निर्वोढुं ततोऽतिवृक्षगहने बच्वा तं
For Private & Personal Use Only
मुषादक्षयि नि भाग
तोदा
हरणम्
गा. १५६१५९
॥ ८० ॥
www.jainelibrary.org