________________
सुमति
साधु०
श्रीदशवै०
अ० ५,
उ० १
।। ७८ ।।
Jain Education Internation
' संमं 'त्ति- न सम्यगालोचितं भवेत् सूक्ष्मं अज्ञानात् अनाभोगेनाननुस्मरणाद्वा, पूर्व पश्चाद्वा यत्कृतं पुरःकर्म पश्चात् चेत्यर्थः । पुनरालोचनोत्तरकालं प्रतिक्रामेत्, तस्य सूक्ष्मातिचारस्य 'इच्छामि पडिकमिउं गोयरचरियाए ' इत्यादि सूत्रं पठित्वा व्युत्सृष्टः- कायोत्सर्गस्थः, चिन्तयेदिदं वक्ष्यमाणलक्षणमिति ॥ १५० ॥ ' अहो जिणेहिं ' 'अहो' विस्मये, जिनैः - तीर्थकरैः, असावद्या- अपापा, वृत्ति:- वर्त्तना, साधूनां दर्शिता देशिता वा मोक्षसाधनहेतोः - सम्यग्दर्शनज्ञानचारित्रसाधनस्य साधुदेहस्य धारणाय - संधारणार्थमिति ।। १५१ ।। ततथ 'नमोक्कारे'त्ति - नमस्कारेण पारयित्वा 'नमो अरिहंताण' मित्यनेन कृत्वा जिनसंस्तवं " लोगस्सुजोगरे " इत्यादिरूपं, अ (त) तो यदि न पूर्व प्रस्थापितस्ततः स्वाध्यायं प्रस्थाप्य मण्डल्युपजीवकस्तमेव कुर्यात् यावदन्ये आगच्छन्ति यः पुनस्तदन्यः क्षपकादिः सोऽपि प्रस्थाप्य विश्राम्येत् क्षणं स्तोककालं मुनिरिति ॥ १५२ ॥ 'वीस्समंतो' त्ति-विश्राम्यन्निदं चिन्तयेत् परिणतेन चेतसा, हितं- कल्याणप्रापक मर्थं वक्ष्यमाणलक्षणं, किंविशिष्टः सन् ? भावलामेन - निर्जरादिनाऽर्थोऽस्येति, लाभार्थिकः, यदि मे - ममानुग्रहं कुर्युः साधवः प्राकपिण्डग्रहणेन ततः स्यामहं तारितो भवसमुद्रादिति ।। १५३ ।। एवं सञ्चिन्त्योचितवेलायां आचार्यमामन्त्रयेत्, यदि गृह्णाति शोभनं नो चेद्वक्तव्योऽसौ भगवन् ! देहि केभ्योऽप्यतो यद्दातव्यं, ततो यदि ददाति सुन्दरं, अथ भणति - 'त्वमेव प्रयच्छ' अत्रान्तरे 'साहवो'त्ति-साधूंस्ततो गुर्वनुज्ञातः सन् 'चिअत्तेणं' ति मनःप्रणिधानेन निमन्त्रयेत् यथाक्रमं यथा रत्नाधिकतया, "ग्रहणौचित्यापेक्षया वालादिक्रमेणे" त्यन्ये । यदि तत्र केचन धर्मबान्धवा इच्छेयुः - अभ्युपगच्छेयुः, ततस्तैः सार्धं भुञ्जीतोचितसंविभागदानेनेति ॥ १५४ ॥ 'अह कोई 'त्ति अथ
For Private & Personal Use Only
भोजन
विधिः
गा. १४६.
१५५
।। ७८ ।।
www.jainelibrary.org