________________
पानविधिः गा. १३४.
१४०
सुमति- वा, मत्या-तद्ग्रहणादिकर्मजया, दर्शनेन वा-वर्णादिपरिणतसूत्रानुसारेण, वा चशब्दार्थः, तदप्येवम्भूतं कियंती साधु न
वेलाऽस्य धौतस्येति पृष्ट्वा गृहस्थं, श्रुत्वा वा महती वेलेति श्रुत्वा च प्रतिवचनं, यच्चेति, यदेवं निःशकित श्रीदशवैभवति, निरवयवं प्रशान्ततया तन्दुलोदकं तत् प्रतिगृह्णीयादिति । विशेष: पिण्डनियुक्तावुक्त इति ॥ १३५ ॥ अ०५, IN उष्णोदकादिविधिमाह-'अजीवं'ति सूत्रं, उष्णोदकं अजीवं परिणतं ज्ञात्वा त्रिदण्डपरिवर्तनादिरूपं मत्या दर्शनेन वेत्यादि
वर्त्तते, तदेवम्भूतं प्रतिगृह्णीयात् संयतः, चतुर्थरसमपूत्यादि देहोपकारक मत्यादिना ज्ञात्वेत्यर्थः। अथ शङ्कितं भवेत्
पूत्यादिभावेन तत आस्वाथ रोचयेद्विनिश्चयं कुर्यादिति ॥ १३६ ॥ तच्चैवं-'थोवं'त्ति-स्तोकमास्वादनाथ प्रथम ॥ ७४॥
तावद्धस्ते देहि मे, यदि साधुपायोग्यं ततो ग्रहीये, मा मेऽत्यम्लं पूति नालं तृडपनोदाय, ततः किमनेनानुपयोगिना ? इति सूत्रार्थः॥ १३७ ।। आस्वादितं च सत्साधुप्रायोग्यं चेत् गृह्यत एव, नो चेदग्राह्य, अत आह-तं चेति गतार्थ चेति ॥ १३८ । 'तं च होजे ति, तच्चात्यम्लादि भवेदकामेन उपरोधशीलतया विमनस्केन-अन्यचित्तेन प्रतीच्छितंगृहीतं तदात्मना कायापकारकमनाभोगधर्मश्रद्धया न पिबेन्नाप्यन्येभ्यो दापयेत्, रत्नाधिकेनापि स्वयं दानस्य प्रतिषेधज्ञापनार्थं दापनग्रहणं । इह च “ सवत्थ संजमं संजमाओ अप्पाणमेवे"त्यादि भावनेति ॥१३९।। अस्यैव विधिमाह'एगन्त'त्ति-एकान्त अवक्रम्य-गत्वा अचित्तं दग्धदेशादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणेन स्थण्डिलमिति गम्यते यतं-अत्वरित प्रतिष्ठापयेत्, विधिना त्रिः वाक्यपूर्व व्युत्सृजेत् , प्रतिष्ठाप्य वसतिमागतः प्रतिक्रामेत् | ईयापथिकां । एतच बहिरागतनियमकरणसिद्धं प्रतिक्रमणं अबहिरपि प्रतिष्ठाप्य प्रतिक्रमणनियमापनार्थमिति ॥ १४०॥
॥७४॥
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org