________________
दानक०
॥३८॥
धन्योऽभ्यधान्मुधा मुग्धे!, किं नाशयसि ? यौवनम् । अभुक्त्वा नहि ताम्बूलं, करस्थं शोषयेदुधः ॥११५ दूरदेशगतस्याशा, तस्य सुभ्र ! विमुच्यताम् । मांप्रपद्य पर्ति भोगा, भुज्यतामिह दुर्लभाः ॥ ११६ ॥ आकर्ण्य तद्वचः सापि, वज्रपातसहोदरम् । कर्णौ पिधाय पाणिभ्यां, भयभीतेत्यभाषत ॥ ११७ ॥ | गतियगलकमेवोन्मत्त! पुष्पोत्कराणाम, हरशिरसि निवासःक्ष्मातले वा निपातः ।
विमलकुलभवानामङ्गनानां शरीरं, पतिकरकरजो वा सेवते वा हुताशः ॥ ११८ ॥ नाम्ना धन्योऽप्यधन्योऽसि, यस्त्वमुन्मार्गमागमः। वक्रगो मङ्गलोऽप्युा , स्यादमङ्गल एव यत् ॥ ११९ परयोषाभिलाषेण, नूनं भ्रश्यसि वैभवात् । को वा फणिमणीग्राह-काम्यया सुखितो भवेत् ? ॥१२०॥ मच्छीललोपे यत्रेन्द्रो, नेष्टे तत्र भवाँस्तु कः? । और्वे यत्राम्बुधिर्ममः, प्रोन्मदस्तत्र किं नदः? ॥१२॥
॥पञ्चभिः कुलकम् ॥ चेतनाया इवैतस्याः, स दृष्ट्वेति विशुद्धताम् । अनिर्वाच्यं परात्मेवा-मन्दानन्दमविन्दत ॥ १२२ ॥ १ वडवानले।
Jain Educa
For Private & Personel Use Only
IDILww.jainelibrary.org