SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सख्याख्याहि निजाख्यादि, मत्प्रीत्यै विमलाशये! स्वान्तस्थं गोपयेयुः किं, वस्तुस्फटिकभित्तयः? १०१ लज्जयाऽधोमुखी साऽपि, बभाषे सुमुखी सखि!। किं मां पृच्छसि ? दुःखाती, पृच्छ दुर्दैवमेव मे॥१०५/ शालिभद्रस्य तस्याहं, भगिनी भाग्यशालिनः । भोगी न गीयते कोऽपि, यतोऽन्यस्त्रिजगत्यपि ॥१०६ ॥ गोभद्रस्य सुता तस्य, भद्राकुक्षिसमुद्भवा । यत्समः कोऽपि नास्त्येव, पिता पुत्रैकवत्सलः ॥ १०७ ॥ त्वद्भर्तृसमनाम्ना च, धाम्ना सद्भाग्यसंपदाम् । व्यवहारिसुतेनोढा, लक्ष्मीरिव मुरारिणा ॥ १०८ ॥ कलिना मलिनाचारान्, विलोक्य निजबान्धवान् । समां समां रमांचापि, परित्यज्य ययौ क्वचित्॥१०९॥ गते तस्मिन् गता लक्ष्मीरनन्यगतिका सती । नीराभावे तडागान्तस्तिष्ठेदम्बुजिनी किमु ? ॥ ११० ॥ खनिर्वाहकृतेऽत्रैत्य, खन्यते तत्सरः सखि ! । विराद्धाः किं न जल्पन्ति ?, किं न कुर्वन्ति निर्धनाः ?॥१११ अथाजगाम धन्योऽपि, गोपितखाकृतिर्मनाक् । गोभद्रतनयामेवं, सव्याज व्याजहार च ॥ ११२॥ प्राणाधीशं विना प्राणान्, कथं धरसि? भामिनि! । पयः शोषे हि कृष्णोर्वी, विदीर्येत सहस्रधा ११३ साह मे जीवितं रक्षत्याशाबन्धो निपाततः । अपि शुष्कं पुष्पवृन्द, वृन्तपाश इव स्थिरः ॥ ११४ ॥ Jan Education Intel For Private Personal Use Only
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy