________________
दानक०
॥ ३७ ॥
धनसारं जगुर्भृत्या, अहो वः संनिधेर्वयम् । अभूम सुखिनः सर्वे, सत्सङ्गः श्रेयसे यतः ॥ ९३ ॥ अथ क्रमाद्ययुर्धन्य - सौधे श्रेष्ठिवधूटिकाः । तकस्य जीवनस्यार्थे, कादम्बिन्य इवाम्बुधौ ॥ ९४ ॥ धन्याज्ञया ददौ ताभ्यस्तकं सौभाग्यमञ्जरी । सौभाग्यमञ्जरी सैव, स्त्रीणां यद्भर्तृवश्यता ॥ ९५ ॥ सोऽशिषञ्च प्रियामेवं, तिसृभ्यस्तक्रमेव भोः । ज्यायसीभ्यस्त्वया देयं, स्वच्छं सज्जनचित्तवत् ॥ ९६ ॥ दधिदुग्धादिकं दद्याः, कनीयस्यै पुनः प्रिये ! । प्रियालापादिभिर्वर्यां कुर्याश्च प्रीतिमेतया ॥ ९७ ॥ विधाय दयितादेशं, शिरः शिखरशेखरम् । अवक्रेण हृदा चक्रे, सर्वदैव तथैव सा ॥ ९८ ॥ प्रददे च प्रमोदेन, कनीयस्यै पुनः स्त्रिये । द्राक्षाकरम्भपक्वान्न-दधिदुग्धसितादिकम् ॥ ९९ ॥ तद्वीक्ष्याश्लाघत श्रेष्ठी, सुभद्रां ननु पश्यत । सूनोर्भाग्यवतः पत्य- प्येषा भाग्यवती सती ॥ १०० ॥ समत्सराः पराः प्राहु-व्र्व्याख्यातो देवरः पुरा । तत्याज चपलो देश -मप्यहो ! भाग्यशालिता ॥ १०१ ॥ दिवा मृदं वहत्येषा, रजन्यां खपिति क्षितौ । सुदुःखिनी खरीवाहो !, भृशं भाग्यवतीतरा ॥१०२ युग्मम्॥ अन्यदा वन्यदावाग्नि-ध्यामिताम्रलतानिभाम् । निःश्रीकां तां शतानीका -ङ्गजा प्राह गृहागताम् ॥१०३॥
Jain Education International
For Private & Personal Use Only
प० प०
॥ ३७ ॥
w.jainelibrary.org