________________
समये झापयिष्यामि, ततः स्वमपि नाधुना । अकाले स्याद्विकाराय, यत्पथ्यमपि रोगिणाम् ॥ ८॥ वृद्धानां दुस्सहं तैलं, भोज्ये देयं ततो घृतम् । सर्वभृत्येभ्य इत्येष, खमादिक्षन्नियोगिनम् ॥ ३॥ भृत्यान् वृक्षानिवोल्लास्य, घृतदापनजै रसैः । यथागतं जगामेष, धाराधर इवोन्नतः॥ ८४॥ द्वितीयेपि दिने तत्र, स तान् सत्कर्तुमागतः । वृक्षान् सपल्लवीकर्तुं, वसन्त इव कानने ॥ ८५॥ मनोऽनुकूलताम्बूल-दुकूलादिप्रदानतः । सच्चक्रे कर्मकृद्वर्ग, पित्रादीश्च विशिष्य सः॥ ८६ ॥ स प्राह स्थविरं तक्रा-भावे वः स्यान्निशान्धता । वासरापगमे चक्र-वाकाणामिव पक्षिणाम् ॥ ८७॥ तद्राचं मगृहात्तकं, युष्माभिर्वृद्ध ! सर्वदा । महतामपि यत्तस्य, याचने स्यान्न लाघवम् ॥ ८८॥ नित्यं तक्रार्थमायान्तु, तव वध्वो मदालये । ज्ञेयं मगृहमात्मीय-मेव गण्यं नचान्तरम् ॥ ८९॥ . महान् प्रसाद इत्यूचे, श्रेष्ठिना पटुचाटुना । धिगबोधं क्षुधं नैःस्व्यं, परायत्तांच जीविकाम् ॥ ९॥ यतः-क्षीणो मृगयतेऽन्येषा-मौचित्यं सुमहानपि। द्वितीयाभूः प्रजादत्त-तन्त्वन्वेषी यथा शशी॥९१॥ संप्रीण्य स तथा भृत्यान्, पित्रादींश्च विशेषतः । दैवदुर्ललितं निन्द-नावासं निजमासदत् ॥ ९२॥
THEHॐॐॐॐॐॐ
61
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org