SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Jain Education प्रभुत्वेऽथाऽनपायेऽपि, सोपायव्यवसायवित् । उपार्जत् सोऽल्पकालेन, स्वर्णकोटीरनेकशः ॥ ४१ ॥ दुष्प्रापमम्बु लोकानामालोक्य नगरेऽन्यदा । सरः खानयितुं तेन, प्रारेभेऽथ शुभेऽहनि ॥ ४२ ॥ इतः श्रेष्ठिगृहान्ये, गते श्रीरप्यगात्तदा । भाखति प्रोषिते विश्वादिनलक्ष्मीरिवाखिला ॥ ४३ ॥ अमात्रां मम जामात्रा, प्रौढिं नीताः सदाप्यमी । खला अकलहायन्त, भूपस्तानित्यदण्डयत् ॥ ४४ ॥ उज्झिता धनसाराद्या, धनैरेव न केवलम् । स्पर्द्धेनेव तदनुगैर्यशः कान्तिगुणैरपि ॥ ४५ ॥ निर्धनत्वादसारोऽथ, धनसारो व्यचिन्तयत् । कथं प्रागुच्चवाणिज्यस्तन्नीचमधुनाश्रये ! ॥ ४६ ॥ ततोऽसौ न्यगदत् पुत्रान् प्रवसामः खवृत्तये । द्राक्षासदृक्षामा हुर्यद्भिक्षामप्यन्यनीवृति ॥ ४७ ॥ सुविद्योऽपि सुरूपोऽपि, नार्थमर्धति निर्धनः । स्वक्षरोऽपि सुवृत्तोऽपि द्रम्मः कूटो यथा जने ॥ ४८ ॥ सुताः! सुतारवषोऽपि, कोऽपि श्लाघ्यो न निर्धनः । वराक्षरमपि श्राव्यं, काव्यं यन्नार्थवर्जितम् ॥ ४९ ॥ एवमुक्त्वाऽमुनाऽन्यत्र, निर्वाहाय यियासुना । प्राहेषातां पितुर्गेहे, सोमश्रीकुसुमश्रिय ॥ ५० ॥ १ देशे । For Private & Personal Use Only v.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy