SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ दानक० ॥३४॥ BREAKING अस्मिन् सति पुरस्यान्तरतिवृष्टिपुरस्सराः । अनीतय इव क्ष्मापे, न स्युः सर्वा अपीतयः ॥ ३० ॥ एतद्युजि भुजे न स्युः, कदापि प्रोन्मदा गदाः । अम्बुवाहाश्रिते दावहव्यवाहा इवाचले ॥ ३१ ॥ पराभवन्ति भूपाद्या, न कदाप्येतदाश्रितम् । अर्काङ्कपालीमालीनमन्धकारा इवाङ्गिनम् ॥ ३२॥ यदि न प्रत्ययः स्वामिन् !, स्थालमानाय्यतां तदा । शालिभिः पूरितं कूरभक्षिणश्चापि पक्षिणः ॥३३॥ स्थाले शालिकणैः पूर्णे, समानीतेऽथ वेत्रिणा । स्थापयित्वा मणिं धन्यः, मापतेः पक्षिणोऽमुचत् ३४ अभ्रमन्नभितः स्थालं, नालं स्पष्टं खगाः परम् । परितो द्वीपमुल्लोलाः, कल्लोला इव वारिधेः॥ ३५॥ मणावपाकृते ते तु, कणानादन् क्षणादपि । आरामे रक्षकत्यक्ते, फलौघानिव मर्कटाः ॥ ३६॥ . धन्यः प्राह यथानेन, पक्षिभ्यो रक्षिताः कणाः। वैरीतिरगद३भूतेभ्यो४, रक्ष्यन्ते मनुजास्तथा ॥३७॥5 निशम्येति महीनाथः, प्रत्यक्षं प्रेक्ष्य चाद्भुतम् । मणेः प्रभावं धन्यस्य, कौशलं च चमत्कृतः ॥ ३८॥ सौभाग्यमञ्जरी कन्यां, धन्यायादत्त भूपतिः। ग्रामानश्वान् गजेन्द्राँश्च, पञ्च पञ्च शतप्रमान् ॥ ३९॥॥ ३४॥ बहिर्निवेश्य कौशाम्ब्या, धन्यः स्वाभिधया पुरम्।कारिते तत्र सोधेऽसौ, न्यवात्सीत्सौख्यलीलया ॥४॥ Jain Education For Private & Personal Use Only jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy