SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Jain Education तत्र क्षत्रशिरोरत्नं, शतानीकोऽभवन्नृपः । यस्यासिद्वेषिवर्गश्च समं निष्कोशतां गतौ ॥ २० ॥ आसीत्कोशे मणिस्तस्य सहस्रकिरणाह्वयः । कुलदैवतवत्पूज्यः, पूर्वजैः सर्वदापि हि ॥ २१ ॥ तद्गुणान् भूभुजा रत्नपरीक्षाविदुरा नराः । पृष्टा न चाऽभ्यधुः केऽपि, पुलिन्दा इव पूर्गुणान् ॥ २२ ॥ अमुष्य मणिमुख्यस्य, यो गुणान् निपुणाग्रणीः । प्रत्यक्षप्रत्ययान् सम्यग्, बम्भणीत्यनणीयसः ॥ २३ ॥ तस्मै ग्रामगजाश्वानां पञ्च पञ्च शतान् ददे । सत्यप्रतिज्ञः सौभाग्यमञ्जरीं च स्वपुत्रिकाम् ॥ २४ ॥ इति क्षितिपतिः पुर्या, पटहं प्रतिचत्वरम् । परीक्षकोपलम्भाय, ससंरम्भमवादयत् ॥ २५ ॥ त्रिभिर्विशेषकम् ॥ डिण्डिमं चण्डनिर्घोषं, निवार्य धनसारसूः । अधिभूपसभं प्राप, परीक्षकशिरोमणिः ॥ २६ ॥ धन्यं वत्सपतिः प्राह वत्स ! रत्नपरीक्षणम् । विधेहि तद्गुणान् स्पष्टमभिधेहि च धीनिधे ! ॥ २७ ॥ धन्येनापि मणिं वीक्ष्य, भणितं भूपते ! शृणु । सप्रत्ययं भणाम्यस्य, प्रभावं चित्तचित्रदम् ॥ २८ ॥ एष यच्छेवरोत्सङ्गसङ्गमङ्गति भूपते ! । तं द्विपा इव पारीन्द्रं हन्तुं शक्ता न विद्विषः ॥ २९ ॥ For Private & Personal Use Only w.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy