SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ दानक० ॥ ३३ ॥ Jain Education | प्रावीविशत् पुरे पौरसहितो विहितोत्सवः । औचित्यं नहि कृत्येषु, चतुरः परिमुञ्चति ॥ १० ॥ त्रिभिर्विशेषकम् ॥ रमाभिरामान् स्वग्रामान्, बान्धवेभ्यः स दत्तवान् । बन्धुभोग्या हि या लक्ष्मीः, सैव श्लाघ्या मनस्विनाम् ॥ सत्कृता अपि धन्येन, धनाद्यैरग्रजा निजाः । अमर्षमेव ते हर्षस्थानेऽदधत दुर्धियः ॥ १२ ॥ खलः सत्क्रियमाणोऽपि ददाति कलहं सताम् । दुग्धधौतोऽपि किं याति वायसः कलहंसताम् ? ॥१३॥ धन्योऽथामर्षवाक्शुष्यत्तालूनालूनसौहृदान् । कृपालूत्तम ईर्ष्यालून्, वीक्ष्य बन्धून् व्यचिन्तयत् ॥ १४ ॥ ||ईर्ष्यामलीमसानि स्युर्मानसानि यथा भृशम् । बन्धूनां संपदप्येषा, विपदेव मता सताम् ॥ १५ ॥ तदिमां संपदं सर्वां, त्यक्त्वा देशान्तरे पुनः । यामि कामितसंप्रात्या, तुष्टाः सन्तु सहोदराः ॥ १६ ॥ ध्यात्वेति स प्रियास्तिस्रो, मुक्त्वा चिन्तामणीसखः । अननुज्ञाप्य राजादीनदीनो निर्ययौ पुरात् ॥१७॥ |सञ्जताभीष्टसंपत्तिश्चिन्तारत्नानुभावतः । स मत्तेभवनेऽप्याप, सुखं स्वभवने यथा ॥ १८ ॥ | स व्यतीत्य बहून् ग्रामानार्यस्तिर्यग्भवानिव । मनुष्यगतिवत् प्राप, कौशाम्बीं पुण्यवान् पुरीम् ॥ १९ ॥ For Private & Personal Use Only प० प० ॥ ३३ ॥ jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy