________________
Jain Educati
अथ षष्ठः पल्लवः
अथास्मिन् श्रीवधूकेलिगृहे राजगृहेऽन्यदा । लीलया विलसन् सप्तभूमसौधाग्रभूमिषु ॥ १ ॥ पितरौ सोदराश्चापि, दीनं बम्भ्रमतः सतः । धन्यो वन्योचितार्कल्पान्, रङ्ककल्पान् व्यलोकत ॥२॥ युग्मम्॥ उपांशु भृत्यैराकार्य, विनयेन प्रणम्य च। पप्रच्छ स्वच्छचित्तोऽसौ, पितरं रचिताञ्जलिः ॥ ३ ॥ लक्ष्मीवतां कथं तात !, निःखता वः समागता ? । नहि च्छायाजुषां तापव्यापज्जात्वपि जायते ॥ ४ ॥ सोऽवग् वत्स ! त्वया सार्धं गता श्रीरपि गेहतः । जीवेनैव समं यद्वा, चेतना याति देहतः ॥ ५ ॥ चौरावस्कन्दवह्नथाद्यैः, सापि संपत्त्वदर्पिता । क्षयं नीता प्रभूतापि, वातैरिव घनावली ॥ ६ ॥ स्वच्छात्मा स निशम्येति, तद्दुःखप्रतिबिम्बतः । चित्ते सुखोज्झितो जज्ञे, स्वभावो हि सतामसौ ॥ ७ ॥ वेषाडम्बरहीनानामवज्ञा महतामपि । महेशेऽप्यर्धचन्द्रः किं, कृत्तिवाससि नाभवत् ? ॥ ८ ॥ तदेते लघुतां माऽऽपन्, महेभ्येष्वधना इति । धन्यो वस्त्ररथाश्वादि, दत्त्वा प्रेष्य च तान् बहिः ॥ ९ ॥ १ वेषो नेपथ्यमाकल्पः । इति हैमः ।
ational
For Private & Personal Use Only
www.jainelibrary.org