SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ भविष्यति महाभाग!, चक्षुस्ते मम वेश्मनि । मुक्तं ग्रहणकस्थाने, त्वया हि न मृषोच्यते ॥ ११६॥ परं ज्योतिर्जुषः सन्ति, मञ्जूषासु गृहे पुरा । सहस्रशो दृशो लोकैर्मुक्ता ग्रहणके मम ॥ ११७ ॥ पृथिव्यां हि पुरं सारं, पुरे गेहं गृहे धनम् । धनेऽपि कायः कायेऽपि, वक्रं वक्रेऽपि चक्षुषी ॥ ११८॥ सर्वसारतया तस्मादृश एव नृणां सदा । लात्वा ग्रहणकस्थाने, प्रायो वृद्ध्या धनं ददे ॥ ११९ ॥ तद् द्वितीयं भवांश्चक्षुर्ममार्पयतु सम्प्रति । तत्सादृश्यादभिज्ञाय, यथा ते दृशमानये॥ १२०॥ फालाद् भ्रष्टो हरिर्दावाच्युतो वा द्यूतकृयथा । धूर्तस्तथा विलक्षोऽभूत्वचक्षुर्दातुमक्षमः ॥ १२१ ॥ ॥ धन्यस्यैवं धिया तेन, पटीयस्या प्रयुक्तया । कपटी प्रकटीभूतो, राज्ञा निर्धाटितः पुरात् ॥ १२२ ॥ ४ श्रेष्ठी तां विपदं तीर्णो, दिदीपेऽथाधिकं श्रिया। राहुदंष्ट्राविनिर्मुक्त, इव कैरववान्धवः ॥ १२३ ॥ तच्छ्रुत्वाथ प्रियसखी, सोमश्रीकुसुमश्रियोः । भद्रागोभद्रसूः कन्या-नन्यसाधारणा गुणैः ॥ १२४ ॥ विनिद्राक्षी सुभद्राख्या, कलासौभाग्यशालिने । धन्याय स्वप्रदानोत्कान्, खजनानभ्यनन्दयत्॥१२५॥ युगलम् ॥ JainEducation For Private Personel Use Only M ainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy