________________
दानकः || उपायाः सामदानाद्याः, प्रयुक्ता व्यवहारिभिः । अस्मिन् सर्वेऽभवन् व्यर्था, विद्युदग्नाविवाम्बुदाः॥१०७॥
धूर्तो भूपसभं प्रापत्, प्रसभं कलहावहः । नालं छेत्तुं भवन्ति स्म, तं कलिं सचिवादयः ॥ १०८ ॥ गोभद्रधूर्तयोर्वादमच्छिन्नं मत्रिभिस्तदा । वीक्ष्याऽभयकुमारस्य, स्मरन् राजेत्यभाषत ॥ १०९॥ अत्र चेदभयो मन्त्री, स्यादेवं न तदा कलिः । द्योतते सविता यत्र, न तत्र ध्वान्तसन्ततिः ॥११०॥ अभयेन विना पर्षन्न मे हर्षप्रदायिनी । ननु चन्द्रमसा युक्ता, निशा न स्यात्तमोमयी ॥ १११ ॥
त्रिभिर्विशेषकम् ॥ गोभद्रः स्वसुतां दत्ते, विवादच्छेदकारिणे । एवं भूपतिनाऽवादि, पटहो नगरे ततः ॥ ११२ ॥ दम्भान्धतमसध्वंसहंसः पस्पर्श डिण्डिमम् । सतां मान्यस्तदा धन्यः, सभामाप च भूपतेः ॥ ११३ ॥ एवमेवं त्वया वाच्यमिति प्रच्छन्नमन्वशात । स गोभद्रं कथारम्भे, गुरुः स्वान्तिषदं यथा ॥११४ ॥ समक्षं सर्वसभ्यानां, महेभ्यानां नृपस्य च । सार्थवाहस्ततः प्राह, धूर्त वादप्रशान्तये ॥ ११५॥ १ स्मृत्यर्थदयेशः इति वैकल्पिके व्याप्यत्वे पक्षे शेषत्वेन षष्ठी।
॥३१॥
in Education Internal
For Private & Personel Use Only
www.jainelibrary.org