SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Jain Educatio भद्र ! स्मरसि गोभद्र ! चम्पायामागमिष्यसि । तत्र सांयात्रिकाद् भूरि, भूरि व्यवहरिष्यसि ॥ ९८ ॥ आदास्येऽहं च दास्येन, तदा सीदन् कुंसीदतः । द्रव्यलक्षं तवोपान्ते, चक्षुर्ग्रहणकार्पणात् ॥ ९९ ॥ साकाङ्क्षवाक्यतो युग्मम् ॥ व्यवसायान्विधायाहं, बहुद्रव्यमवाप्नवम् । संप्रत्यत्र ततः प्रापमादानाय स्वचक्षुषः ॥ १०० ॥ द्रव्यलक्षमिदं वृद्धियुतं भद्र ! गृहाण तत् । विरोचनसमज्योतिर्लोचनं मे तथाऽर्पय ॥ १०१ ॥ वदन्नेवं वचो वाचोयुक्तिज्ञेन मृदूक्तिभिः । तेन प्रज्ञापितोऽप्युच्चैरित्याख्यद् व्यंसको सकौ ॥ १०२ ॥ | बह्वीभिर्धनकोटीभिर्दुर्लभे मम लोचने । मा लुभात् क्षुभ्यदब्ध्याभलोभोऽप्यत्रभवान् भवान् ॥ १०३ ॥ सारं ग्रहणकं दृष्ट्रा, चेत्त्वयाऽप्यपलप्यते । ही शुद्धव्यवहारस्य, तदा जातो जलाञ्जलिः ॥ १०४ ॥ तमोऽन्तकस्तमः कुर्यात्, चेच्छुर्यात्कस्तदा पुनः । विषवृष्टिः सुधांशोश्चेद्, भूयात्तुष्टिस्तदा कुतः ? ॥१०५॥ एवं निशम्य गोभद्रः, किंकर्त्तव्यतया जडः । महेभ्यान् प्रेरयामास, धूर्त्तप्रज्ञापनाकृते ॥ १०६ ॥ १ 'अयदि स्मृत्यर्थे भविष्यन्ती' अनेन भूते भविष्यन्ती । २ वृद्ध्या । SH For Private & Personal Use Only ww.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy