________________
दानक०
॥३०॥
****AX6406320K*AW***%*%
परिवेष्य च पुत्राय, सा तदृग्दोषशङ्कया । अन्यत्रागाद्यतोऽनिष्ठाशति स्याज्जननीमनः ॥ ८८ ॥ तावदेको मुनिस्तत्र, मासक्षपणपारणे । सङ्गमस्य गृहेऽगण्यैः, पुण्यैर्नुन्न इवागमत् ॥ ८९॥ गोपालेनापि बालेन, विवेकच्छेकचेतसा। पायसं कायसंप्रीत्यै, मुनये भावतो ददे ॥९॥ क्षणादागतया मात्रा, मात्राधिकमुदा पुनः । पर्यवेष्यत पुत्राय, तदनेनाप्यभुज्यत ॥ ९१॥ बलिष्ठभोजनाहालः, स विसूचिकया मृतः । स्वकृतं सुकृतं पात्रदानं ध्यायन् मुहुर्मुदा ॥ ९२॥ मगधाधिपते राजधान्यां राजगृहेऽथ सः । दानपुण्यमहिनाऽभूद् , भद्रागोभद्रयोः सुतः ॥ ९३ ॥ फलितं जननी स्वप्ने, शालेयं यक्ष्यलोकत । गर्भगेऽस्मिन्नतः शालिरशालि खजनैरसौ ॥ ९४ ॥ क्रमाद्यौवनमापन्नः, स कन्याः परिणायितः। पित्रा द्वात्रिंशतं नित्यमतिष्ठत्सुखलीलया ॥ ९५॥ तावत्सर्वधियां धाम्ना, रहितेऽभयमविणा । पुरेऽत्रावसरं ज्ञात्वा, कश्चिन्नैगमवेषभृत् ॥१६॥ एकाक्ष एकदा धूर्तों, मूर्तो दम्भ इवागतः । गोभद्रश्रेष्ठिनं प्राह, साहसी धनदं धनैः ॥९७॥ युग्मम्
| ॥३०॥
Jain Education
For Private & Personel Use Only
HAJainelibrary.org