SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ अवक्रश्चक्रवत् शीघ्रं, भ्रमयन् स स्वयं भ्रमात् । निर्मदं सामजं चक्रे, गजशिक्षाविचक्षणः ॥ ७७॥ मर्मण्याहत्य पादेनोत्प्लुत्य चारूढवानमुम् । सोऽङ्कुशेन गजं निन्ये, तदालानमनाकुलः ॥७८॥ तत्कलारञ्जितस्तस्मै, सुतां सोमश्रियं नृपः । सहस्रं च ददौ ग्रामान्, महोत्सवमनोरमम् ॥ ७९ ॥ वनपल्लवनोद्भूता, ववृधे हस्तिबन्धनात् । कीर्तिर्धन्यस्य भूभृद्भू दीवाम्बुदवर्षणात् ॥ ८॥ इतश्चात्रैव देशेऽभूद्धनधान्यसमृद्धिमान् । शालिग्राम इति ग्राम, इन्द्रियग्रामशर्मदः ॥ ८१॥ तत्र धन्याभिधा कापि, कापिलीयप्रणीतिवत् । सत्कार्यकारिणी भद्रप्रकृतिः स्थविराऽभवत् ॥ ८२॥ नाम्ना सङ्गम इत्यासीद्रौद्रदारिद्यसङ्गमः। सुमुख्यास्तनयोऽमुष्याः, प्राञ्जलः प्रणयोज्ज्वलः ॥ ८३ ॥ स चारयन् सदा पौरगोरूपाण्येकदैक्षत । परमान्नं महे वापि, महेभ्यानां गृहे गृहे ॥ ८४ ॥ ययाचेऽथ गृहं गत्वा, नत्वा स स्थविरामिति । पायसं सघृतं मातर्देहि मे हितकारिणि ! ॥ ८५॥ एकस्यापि सुतस्यासी, पायसस्य मनोरथम् । नालं पूरयितुं निःखा, रोदिति स्म ततो भृशम् ॥ ८६ ॥ |श्रुत्वा तत्प्रातिवेश्मिक्यो, ददति स्म दयालवः । तण्डुलाद्यखिलं सापि, पायसं प्रगुणं व्यधात् ॥८७॥ Jain Education D onal For Private & Personel Use Only RRMw.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy