________________
दानक०
॥ २९ ॥
Jain Education
1
पुरश्रीनूपुराणि नन्, गोपुराणि पदे पदे । चूरयन् स्वपदाघातैर्गेहान् देहान् सुखश्रियाम् ॥ ६६ ॥ घट्टयैश्चरणैरट्टान्मरट्टानिव सम्पदाम् । अक्षाणि गेहदेहस्य, गवाक्षान् शुण्डयोत्खनन् ॥ ६७ ॥ अयो भारसहस्रस्य, शृङ्खलान् कमलानिव । त्रोटयन्मोटयँश्चापि क्रीडारामान्मनोरमान् ॥ ६८ ॥ सुभिक्षक्षोणिभृत्कूटान्, धान्यमूटान् खलीलया । करेणोल्लालयन् व्योम्नि, बालकः कन्दुकानिव ॥६९॥ | रोषादाबालगोपालं, स जनं गमयन्मृतिम् । जनङ्गम इव क्रूरोऽभ्रमत्पुरि मतङ्गजः ॥७०॥ पञ्चभिः कुलकम्॥ भूभर्तृनिग्रहोपायास्तत्राथ व्यर्थतामगुः । राजयक्ष्मामये वैद्यप्रतिकारा इवाखिलाः ॥ ७१ ॥ अवन्तीस्थं प्रधानं स्वं, निधानं बुद्धिसम्पदाम् । स्मृत्वा नूनं तदा दूनोऽनूनधीरपि भूधनः ॥ ७२ ॥ ततः करिवरं कोऽपि, यो रङ्कोऽपि प्रकोपिनम् । योगी मन इवाध्यात्ममालानस्थानमानयेत् ॥ ७३ ॥ तस्मै सोमश्रियं वक्रजितसोमश्रियं सुताम् । ददे लक्ष्मीलतारामान्, ग्रामांश्चापि सहस्रशः ॥ ७४ ॥ एवमुद्घोषणां राज्ञा, कारितां सकले पुरे । श्रुत्वा न्यवारयद्धन्यो, गजमभ्याजगाम च ७५ त्रिभिर्विशेषकम् धन्यः परिकरं बङ्घा, क्षणं शीर्षे क्षणं पुरः । क्षणं पार्श्वे क्षणं पश्चात्स्थित्वा गजमखेदयत् ॥ ७६ ॥
For Private & Personal Use Only
प० प०
॥ २९ ॥
lainelibrary.org