SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ दानक० ॥ २८ ॥ Jain Education! निखाताः सन्ति दीनारास्तदावासेषु पश्यताम् । दर्पणे कः समीक्षेत पाणिस्थे मणिकङ्कणे ॥ ४४ ॥ अवबुध्येति लेखार्थं, शिवादेवीप्रियोऽप्यथ । राज्ञो निवासमेकस्य, प्रत्ययार्थमचीखनत् ॥ ४५ ॥ | दीनारान्वीक्ष्य दीनात्मा, स भयेन पलायितः । हस्त्यश्वाद्याददे तस्य नश्यतः श्रेणिकोऽपि च ॥४६॥ प्रद्योतोऽप्यविशद्वेगात्, पुरीं स्वामपरे नृपाः । पृष्ठतः कष्टतः प्रापुः, क्ष्मापालं चैवमालपन् ॥ ४७ ॥ मायेयमाभयी नाथ !, राभस्येन किमागमः ? । उक्त्वेति शपथैस्तैस्तैः प्रभुः प्रत्यायितो नृपैः ॥ ४८ ॥ अन्यदान्तः सभं दान्तशात्रवः क्षात्रतेजसा । प्रद्योतः प्राह कोऽप्यस्ति, यो बाऽभयमानयेत् ? ॥ ४९ ॥ अशक्यानुष्ठितिं श्रुत्वा, भणितिं भूपतेरिति । अभाषिष्ट सभा सर्वा, गर्वावेशविवर्जिता ॥ ५० ॥ गरुत्मत्पक्षतिच्छेदे, कश्छेकोऽपि हि दक्षधी: ? । ऐरावणरदोत्क्षेपविधावाक्षेपवांश्च कः ? ॥ ५१ ॥ | कश्शेषशेखरासङ्गिरत्नादानाय यत्नवान् ? । कस्सिंहकेसरसटा, अटाट्येत विकर्त्तितुम् ? ॥ ५२ ॥ अभयं शास्त्रनिधतनिर्निभप्रतिभाचयम् । आग्रही निग्रहीतुं स्यात्, भूपते! कः सचेतनः १५३ त्रिभिर्विशेषकम् तदाह गणिका काचिद्भूपहृद्दाहहृद्वचः । मामादिश विशामीश !, यथा बद्ध्वा तमानये ॥ ५४ ॥ For Private & Personal Use Only प० प० ॥ २८ ॥ jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy