SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ दानक० ॥ २१ ॥ Jain Education In * मनोविनोदकारीणि, धन्या एव पदे पदे । निधानानीव वीक्षन्ते, कौतुकानि महीतले ॥ ३० ॥ ध्यात्वेति धनसारस्य, तनयः समजायत । देशावलोकनक्रीडानीडालीनमनः खगः ॥ ३१ ॥ रजन्यां सोऽनर्जन्यायां, गृहे किञ्चिन्महे सति । निरगाच्चिरगानेन श्रान्तसुप्तजनेऽन्यदा ॥ ३२ ॥ स मालवान् रमाकेलिपदं जनपदं व्रजन् । मध्याह्ने क्षुधितः किञ्चित्, क्षेत्रं नेत्रपथेऽकरोत् ॥ ३३ ॥ | हालिकः पार्वणैस्तत्र, शालिदालिघृतादिभिः । न्यमन्त्रयत तं धन्यं, धन्यंमन्यः श्रमार्दितम् ॥ ३४॥ साहसी प्राह धन्योऽपि, भुञ्जेऽहं स्वभुजार्जितम् । सिंहाः सत्पुरुषा यन्न, परान्नाः क्षुधिता अपि ॥३५॥ क्षणं कृषामि ते क्षेत्रं, भोक्ष्येऽहममृतं ततः । भुक्तिर्भुजार्जिता दत्ते, गौरवं शस्यगौरवम् ॥ ३६ ॥ स उक्त्वेति हलं यावत्करे गृह्णाति तावता । निधिः प्रादुरभूद्भाग्यभाजां सर्वत्र सम्पदः ॥ ३७ ॥ यतः - निरीहस्य निधानानि, प्रकाशयति काश्यपी । बालकस्य निजाङ्गानि न गोपयति कामिनी ॥ ३८ ॥ स्वर्णपूर्णं निधिं धन्यो, हालिकायार्पयत्ततः । उदाराणामदेयं किं ?, किमज्ञेयञ्च योगिनाम् ? ॥ ३९ ॥ १ अजन्यमीतिरुपात इति हैमः । For Private & Personal Use Only च० प० ४ ॥ २१ ॥ Sanelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy