SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Jain Education E निजोऽयमिति नोपेक्ष्यः, स्वमहत्त्वक्षयप्रदः । स्वाङ्गजोऽपि न किं दत्ते, ? व्याधिराधिमुपेक्षितः ॥ २२ ॥ तदयं सदयं भावं परित्यज्य विनाश्यते । दीप्यते हि प्रदीपोऽपि दग्ध्वैव जनकं गुणम् ॥ २३ ॥ ॥ षड्रिर्थतः कुलकम् ॥ मन्त्रं सुगुप्तमप्येषां धन्योऽज्ञासीत्कथञ्चन । पातालगतमप्यम्बु, बुध्यन्ते न कथं बुधाः ॥ २४ ॥ उक्तञ्च - उदीरितोऽर्थः पशुनापि गृह्यते, हयाश्च नागाश्च वहन्ति नोदिताः । अनुक्तमप्यहति पण्डितो जनः, परेङ्गितज्ञानफला हि बुद्धयः ॥ २५ ॥ वंशस्थम् ॥ स्वगुणैः प्रीणिताः कामं, भ्रातृपत्न्योऽपि भक्तितः । व्यजिज्ञपन्नुपांशु स्वभर्त्राकूतमनुं प्रति ॥ २६ ॥ धन्यो व्यचिन्तयद्धिक् तं मानुषं स्वानुषङ्गतः । विवेककलहंसोऽपि, कलहं यः प्रदीपयेत् ॥ २७ ॥ बन्धूनां गुणसिन्धूना-मामयेनेव नो मया । अत्र स्थितेन सौख्यं स्याद्यामि देशान्तरं ततः ॥ २८ ॥ कलासु कौशलं भाग्यं, बलं स्थेम च हेमवत् । दक्षैः परीक्ष्यते नानादेशभ्रमकोपले ॥ २९ ॥ १ उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम् । इति हैमः । For Private & Personal Use Only w.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy