SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थः पल्लवः भ्रातरस्तेऽथ सौभ्रात्रं, धन्येन श्रीमता सह । अदीदृशंस्तातचित्तानुवृत्त्यै कतिचिदिनान् ॥१॥ प्रतिष्ठानपुरेशाज्ञासम्बन्धिन्यम्बुधेस्तटे । वातनुन्नोऽन्यदा पोतो, मृतखामिक आगमत् ॥ २॥ यानपात्रजना राज्ञा, सत्कृत्य वसनादिभिः। विसृष्टा दत्तपाथेयाः, खं खं स्थानं गतास्ततः॥३॥ गोदायाः स्रोतसा पोतः, सागरान्नगरान्तिकम् । आकृष्य नाविकैीतो, मन्दं मन्दंस पोतवत् ॥४॥ कृत्स्नोत्तारितभाण्डस्य, तस्याविरभवस्तले । सुयत्नस्थापिता नैके, कलशाः क्षारमृद्धृताः ॥ ५॥ दुष्प्रापं लवणं नूनं, पोतेशस्य पुरे ततः । तेनात्ता क्षारमृत्स्नैषा, भूपाद्या इत्यचिन्तयत् ॥ ६॥ प्रतिष्ठानपुराद्राज्ञानुज्ञाता व्यवहारिणः । वस्तूरीकर्तुमायाताः, कस्तूरीप्रमुखं ततः ॥७॥ धन्योऽपि प्रहितः पित्रा, चित्राधायिपवित्रधीः । सार्धं महाजनेनागाद् , भागादानाय वस्तुनः ॥ ८॥ विभज्य जगृहुः सर्वमीश्वरास्तत्क्रयाणकम् । बालोऽयं वञ्च्यतां धन्य, इत्यस्मै च मृदं ददुः॥ ९॥ परीक्षकशिरोरत्नमूषमूल्येन तां मृदम् । लात्वा सर्वां गृहं निन्ये, तत्प्रभावं स आह च ॥ १० ॥ Jain Education in For Private & Personel Use Only Crjainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy