SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Jain Education भक्तिव्यक्तिमिलल्लोकप्रणतः किल सोमिलः । रुद्राचार्यसमीपेऽगादिलापतिकृतोत्सवः ॥ १११ ॥ भक्त्या गुरुं ननामासौ, न नामास्मिन्नपि द्विषम् । सोऽमुचन् मनसः किन्तु, मूढोऽमर्षमदद्रढत् ॥ ११२ ॥ स च प्रभाकराद्याश्च योग्या अप्यमुना गुणैः । अश्लाघया हतोत्साहाः, स्वार्थशैथिल्यमापिताः ॥ ११३ ॥ असीदच्च समग्रोऽपि, गणस्त्यक्तोपबृंहणः । भग्नपालिप्रबन्धः किं तटाको नैव शुष्यति ? ॥ ११४ ॥ किल्बिषौघेन तेनासौ, रुद्रः किल्बिषिकेष्वगात् । प्रवेशमपि न प्राप, पापो देवसभादिषु ॥ ११५ ॥ चिरं दुःखी ततयुत्वा, जन्ममूको द्विजोऽजनि । रागाक्रान्तो दरिद्रश्च मृत्वा भ्रान्तश्चिरं भवे ॥ ११६ ॥ आगमाम्भोधिपारीणोऽप्याचार्यगुणधार्यपि । रुद्रार्यः प्रापितो घोरमेकयैव गुणेर्ष्यया ॥ ११७ ॥ ध्मातायस्पिण्डकल्पानां, गृहस्थानां तु का कथा । सौम्यास्तत्सम्यगालोच्य, भक्त गुणरागिणः ११८ युग्मम् पित्रोक्तमिति ते श्रुत्वा, तस्थुः कत्यपि वासरान् । अन्तः सेर्ष्या बहिः शान्ता, भस्मच्छन्ना इवाग्नयः ११९ श्रेष्ठी त्वसौ धन्यकुमार पुण्यैः, षट्षष्टिकोटिद्रविणोल्बणोऽभूत् । For Private & Personal Use Only jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy