SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अस्तु दूरे गुणश्लाघा, नो भाषणमपि व्यधात् । रुद्रार्यो बन्धुदत्तस्य, धिग् मौढ्यं महतामपि ॥ ९२ ॥ आसन्नसेवकेप्यन्तर्मलिनाः स्युर्निरादराः । लोचनं नहि पक्ष्मान्तान्, पार्श्वस्थानपि पश्यति ॥ ९३॥ दत्तोऽथासत्कृतस्तेन त्यक्ताभ्यासोऽभवज्जडः । बालाराम इवासिक्तः, पत्रपुष्पफलोज्झितः ॥ ९४ ॥ इतश्च - निष्कृपः कृपणः क्रूरः, सरीसृप इवाऽनृजुः । नृपः कृप इति ख्यातः, साकेते पत्तनेऽभवत् ॥९५॥ कुर्वन् हिंसामृषावादस्तेन्याब्रह्मादिपातकम् । न कुसिद्धान्तविभ्रान्तखान्तः श्रान्तः कदाप्यसौ ॥ ९६ ॥ अजमेधमश्वमेधं, नृमेधं च पुरोधसा । गोमेधमपि दुर्मेधा, नैकशः स व्यधापयत् ॥ ९७ ॥ अनुद्विग्नं द्विजेभ्योऽदात्, सगर्वः सर्वपर्वसु । विधाय सुरभीरेष, तिलसर्पिर्गुडादिभिः ॥ ९८ ॥ जैनानामनगराणां, दुष्टो बाधामसौ व्यधात् । साकेतं मुनिभिस्त्यक्तं, तत्ससर्पनिकेतवत् ॥ ९९ ॥ सोमिलर्षिर्निमित्तज्ञो, रुद्राचार्यं जगाविति । निमित्तकलया स्वामिन् ! बोधयेऽहं कृपं नृपम् ॥ १०० ॥ अनुज्ञातोऽथ गुरुणा, सोमिलः करुणार्णवः । साकेतं प्राप्य मुख्यस्य, स्थितः सद्मनि मन्त्रिणः ॥ १०१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy