________________
दानक०
॥ १७ ॥
Jain Education l
| तथा न स्वपतिः कश्चिन्न, स्वभार्यापि काचन । ययोर्विवाहः सञ्जातस्तौ विनष्टौ तदैव यत् ॥ ८३ ॥ न्यासीकृतं याचते कः ? कश्चार्पयति ते मते । अर्पकग्राहकौ नष्टौ, नष्टं न्यस्तं धनं च यत् ॥ ८४ ॥ याचिता भोजनस्यान्यो, भोक्ता तदपरः परम् । अन्य एव तथा भुक्तस्तृप्तः स्यादन्य एव हि ॥ ८५ ॥ एवं सर्वव्यवस्थानां, विलोपस्ते मते भवेत् । जैनेन्द्रं शासनं तस्माद्भद्र ! भद्रङ्करं भज ॥ ८६ ॥ जिगाय न्यायवाचैवं बन्धुदत्तः प्रवादिनम् । जितं जैनैर्जितं जैनैर्जातेत्याघोषणा पुरे ॥ ८७ ॥ स राज्ञा कृतसन्मानो, महोत्सवपुरस्सरम् । उपाचार्यमगाद्भद्वैः पठितो बिरुदैरिति ॥ ८८ ॥ | वादिगरुडगोविन्द । निर्जितवादिवृन्द । षडाषावल्लिमूल । परवादिमस्तकशूल । वादिकन्दकुद्दाल । वादिभूमीपाल । सरस्वतिभाण्डागार । चतुर्दश विद्यालङ्कार ॥ | ततस्तद्विरुदत्रातैस्तदेकोत्कर्षवर्षिभिः । विद्धकर्णः सकर्णोऽपि रुद्रोऽभूद्रोषमुद्रितः ॥ ८९ ॥ यतः - महतोऽपि भवेद्वेषः, सेवके तुङ्गतेजसि । कामदेवं महादेवः, किं सेहेऽधिकविक्रमम् ? ॥ ९० ॥ तेन स्तुतोऽपि स्तुतिभिः, सासूयं स वचोऽलपत् । दग्धाश्मा जलसिक्तोऽपि किमुद्रमति नानलम् ? ॥९१॥
For Private & Personal Use Only
तृ० प०
३
॥ १७ ॥
jainelibrary.org