SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ भाग्यलभ्यास्ततः सभ्याः, सभामभ्यागताः समे । उभयाभिमतास्तत्त्वविवेकच्छेकबुद्धयः ॥ ७२ ॥ प्राप्ता वादावलोकाय, लोका अपि सहस्रशः। सिंहासनमथाध्यास्त, भूपतिःप्रास्तदुर्नयः॥७३॥युग्मम् ॥ सभायां चतुरङ्गायां, प्राग्वादी भिदुराभिधः । सौगतं मतमालम्ब्य, युक्तिजालमथालपत् ॥ ७४ ॥ की यत्सत्तत् क्षणिकं सर्व, दीपज्वालाकुलं यथा । सन्तश्च निखिला भावास्ततः क्षणविनश्वराः॥७५ ॥ अथ बुद्धिनिधिबन्धुदत्तः स्याद्वादकोविदः । अवादीदुत्तरन्यायपटलीः स बलीयसीः॥ ७६ ॥ से एवायमिति प्रत्यभिज्ञा स्थैर्यबलोद्भवा । अविसंवादिनी साधो! बाधते भवतोऽनुमाम् ॥ ७७॥ परः-ननु लूनपुनर्जातनखकेशाङ्गुरादिषु । स एवायमिति ज्ञानं, विसंवादि यथेक्षितम् ॥ ७८ ॥ तथा स्तम्भसभाकुम्भभूभूभृद्भवनादिषु । अन्यथासिद्धमेवेदं, प्रत्यभिज्ञानमिष्यते ॥ ७९ ॥ एवं चेन्मृगतृष्णासु, मिथ्याम्भोऽध्यक्षमीक्षितम् । यथा तथा घटाध्यक्षमपि मिथ्या न किं भवेत् ? ॥८॥ तथा च सकलाध्यक्षेष्वप्रामाण्यप्रसङ्गतः । नानुमापि प्रमा ते स्याद्यत्सा प्रत्यक्षपूर्विका ॥ ८१॥ किश्चार्थक्षणनाशित्वे, मातृघाती न कोऽपि यत् । यया जातो विनष्टा सा या त्वघाति परैव सा ॥८॥ Jain Education ine For Private & Personel Use Only HTMainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy