SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Jain Education निगद्यैवं सपद्येव, समपद्यत मूर्च्छितः । आलिङ्ग्य निबिडं खट्वां स्थितश्चासौ प्रियामिव ॥ ३० ॥ पुत्रैरुत्पाव्यमानोऽपि, क्षमापीठे मुमुक्षुभिः । आत्मेव प्रकृतिं खट्वां, न मुमोच कथञ्चन ॥ ३१ ॥ अथ तत्प्रेयसी प्राह, वत्सा ! जनकवत्सलाः । प्राणेभ्योऽतिप्रियां खट्टां मा मोचयत सम्प्रति ॥ ३२ ॥ मृतः खद्वास्थितो निन्ये, ततः प्रेतवनं सुतैः । पित्राज्ञापालकैः क्षिप्तश्चितायां च तथैव सः ॥ ३३ ॥ श्मशानपालश्चाण्डालः, खडिकां तामयाचत । नार्पितासौ यदा पुत्रैः, सञ्जातः कलहस्तदा ॥ ३४ ॥ वारिताः स्वजनैः पुत्रास्तस्मै पर्यङ्कमर्पयन् । स तं विक्रेतुमानिन्ये, काष्ठपीठचतुष्पथे ॥ ३५ ॥ मृतखद्वेति नागृह्णाद्विपश्चित्कश्चिदप्यमूम् । अभिजानाति निर्भाग्यः, कृष्णां चित्रलतां कथम् ? ॥ ३६ ॥ धन्यस्तां क्रीतवान् रत्नगर्भा बुद्ध्वा स्वबुद्धितः । गत्वागारं गुणोदारः, पित्रादीनामदीदृशत् ॥ ३७ ॥ किमेतदिति मोहेपि, पित्रादिष्टा स्नुषा अमूम् । गृहान्तर्गृह्णते यावदुत्पाट्य रभसावशात् ॥ ३८ ॥ तावद्विघट्टिताङ्गायाः, खट्टाया रत्नवृष्टयः । अपूपुरन् गृहं विश्वमिव धन्यमहः श्रियः ॥ ३९ ॥ युग्मम् ॥ लक्षकोटिमितार्घाणां, रत्नानां वीक्ष्य धोरणीः । अहो भाग्यमहो भाग्यं, धन्यं सर्वेऽस्तुवन्निति ॥ ४० ॥ For Private & Personal Use Only Jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy